पुरीमिंद्रावतीं कृत्वा तत्र राज्यमकारयत् पुरीं माल्यवतीं कृत्वा पितुस्तुल्यं कृतं पदम्
अनावृष्टिस्ततश्चासीन्महती चतुरब्दिका
संस्कृत्य मंदिरे राजा शालग्रामाय चार्पयत्
कृत्वा ददौ वरं तस्मै शृणु तन्मुनिसत्तम अनावृष्टिर्न भविता तावत्ते राष्ट्र उत्तमे।।3.4.1.
सुतो माल्यवतश्चासीच्छंभुदत्तो हरप्रियः
पितुस्तुल्यं कृतं राज्यं वत्सराजस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं शंभुदत्तस्ततोऽभवत्
शंभुदत्तस्य तनयो बिंदुपालस्ततोऽभवत् तेन राज्यं पितुस्तुल्यं कृतं वेदविदा मुने
बिंदुपालस्य तनयो राजपालस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं सोमवर्मा नृपोऽभवत्
पितुस्तुल्यं कृतं राज्यं भूमिपालस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं रंगपालस्ततोऽभवत्
वीरसिंहस्ततो नाम्ना विख्यातोऽभून्महीतले तपः कृत्वा दिवं यातो देवदेवप्रसादतः
कल्पसिंहस्ततो जातो रंगपालान्नृपोत्तमात् 3.4.1.
एकदा जाह्नवीतोये स्नानार्थं मुदितो ययौ
पुण्यभूमिं समालोक्य शून्यभूतां स्थलीमपि
कलापनगरं नाम्ना प्रसिद्धमभवद्भुवि
नवत्यब्दवपुर्भूत्वा सोऽनपत्यो रणं गतः समाप्तिमगमद्विप्र प्रमरस्य कुलं शुभम्
तदन्वये च ये शेषाः क्षत्रियास्तदनंतरम्
वैश्यवृत्तिकराः सर्वे म्लेच्छतुल्या महीतले
गृहीत्वा ब्रह्मरचितमजमेरमवासयत्
अजस्य ब्रह्मणो मा च लक्ष्मीस्तत्र रमा गता
दशवर्षं कृतं राज्यं तोमरस्तत्सुतोऽभवत्
इंद्रप्रस्थं ददौ तस्मै प्रसन्नो नगरं शिवः
तोमरावरजश्चैव चयहानिसुतः शुभः
सप्तवर्षं कृतं राज्यं महादेवस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत्
पितुरर्द्धं कृतं राज्यं मध्यदेशे महात्मना
विक्रमाय ददौ वीरां पिता वेदविधानतः
पितुस्तुल्यं कृतं राज्यं माणिक्यस्तत्सुतोभवत् 3.4.2.