विक्रमाख्यानकालांतेऽवतारः कलया हरेः
तत्कथां भगवान्सूतो नैमिषारण्यमास्थितः
यत्तन्मया च कथितं हषीकोत्तम ते मुदा
सूतपार्श्वं गमिष्यंति नैमिषारण्यवासिनः 3.4.1.
इदानीं श्रोतुमिच्छामि राज्ञां तेषां क्रमात्कुलम्
चतुर्णां वह्निजातानां परं कौतूहलं हि नः
अग्निवंशनृपाणां च चरित्रं शृणु विस्तरात्
प्रमरश्च महीपालो दक्षिणां दिशमास्थितः
निवासं कृतवान्राजा सामवेदपरो बली
त्रिवर्षं च कृतं राज्यं देवापिस्तनयोऽभवत् पितुस्तुल्यं कृतं राज्यं शृणु तत्कारणं मुने
अशोके निहते तस्मिन्बौद्धभूपे महाबले
पंचवर्षान्तरे सूर्यस्तस्मै च कलये मुदा
तदा प्रसन्नः स कलिः शकाय च महात्मने
तत्र गोपान्दस्युगणान्वशीकृत्य महाबली हतवान्भूपतीन्बाणैस्तस्मात्ते स्वल्पजीविनः ।। 3.4.1.
गंधर्वसेनश्च नृपो देवदूतात्मजो बली
शिवाज्ञया च नृपतिर्विक्रमस्तनयस्ततः दशवर्षं कृतं राज्यं शकैर्दुष्टैर्लयं गतः
शालिवाहन एवापि देवभक्तस्य चात्मजः
शालिहोत्रस्तस्य सुतो राज्यं कृत्वा शतार्द्धकम्
पितुस्तुल्यं कृतं राज्यं शकहन्ता ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं हविर्होत्रस्ततोऽभवत्
पुरीमिंद्रावतीं कृत्वा तत्र राज्यमकारयत् पुरीं माल्यवतीं कृत्वा पितुस्तुल्यं कृतं पदम्
अनावृष्टिस्ततश्चासीन्महती चतुरब्दिका
संस्कृत्य मंदिरे राजा शालग्रामाय चार्पयत्
कृत्वा ददौ वरं तस्मै शृणु तन्मुनिसत्तम अनावृष्टिर्न भविता तावत्ते राष्ट्र उत्तमे।।3.4.1.
सुतो माल्यवतश्चासीच्छंभुदत्तो हरप्रियः
पितुस्तुल्यं कृतं राज्यं वत्सराजस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं शंभुदत्तस्ततोऽभवत्
शंभुदत्तस्य तनयो बिंदुपालस्ततोऽभवत् तेन राज्यं पितुस्तुल्यं कृतं वेदविदा मुने
बिंदुपालस्य तनयो राजपालस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं सोमवर्मा नृपोऽभवत्