केशेषु च महीराजं गृहीत्वा तरसा बली
तदाप्रभृति वै शम्भुरशुद्धं नृपतिं प्रियम्
आह्लादः कलिना सार्द्धं कदलीवनमुत्तमम्
तथाभूतं च रामांशं कलिर्दृष्ट्वा मुदान्वितः
स वै बलिर्दैत्यराजोऽयुतैः सह विनिर्गतः
गच्छ वीर बलैस्सार्द्धं निशायां रक्षितो मया
इति श्रुत्वा वचस्तस्य षोडशाब्दांतरे गते 3.3.32.
महीराजसुताञ्जित्वा समाहूय महावतीम्
लिंगार्थं कृतवान्यत्नं स नृपः कीर्तिसागरे
लक्षचंडीं कारयित्वा परमानंदमाप्तवान्
निराहारो यतिर्भूत्वा मृतः स्वर्गपुरं ययौ
सप्ताहोरात्रमात्रेण म्लेच्छराजवशं गतः
तदा म्लेच्छस्सहोड्डीनो निर्बंधनमथाकरोत् क्षुरप्रेण च बाणेन हत्वा वह्नौ ददाह वै
विद्युन्मालां स च म्लेच्छो गृहीत्वा च धनं बहु
सूर्यचंद्रान्वयाख्यानं तन्मया कथितं तव
विशालायां पुनर्गत्वा वैतालेन विनिर्मितम्
तन्मया कथितं सर्वं हृषीकोत्तमपुण्यदम्
नैमिषारण्यमासाद्य श्रावयिष्यति वै कथाम्
तानि चोपपुराणानि भविष्यंति कलौ युगे
सारभूतश्च कथितं इतिहाससमुच्चयः
विक्रमाख्यानकालांतेऽवतारः कलया हरेः
तत्कथां भगवान्सूतो नैमिषारण्यमास्थितः
यत्तन्मया च कथितं हषीकोत्तम ते मुदा
सूतपार्श्वं गमिष्यंति नैमिषारण्यवासिनः 3.4.1.
इदानीं श्रोतुमिच्छामि राज्ञां तेषां क्रमात्कुलम्
चतुर्णां वह्निजातानां परं कौतूहलं हि नः
अग्निवंशनृपाणां च चरित्रं शृणु विस्तरात्
प्रमरश्च महीपालो दक्षिणां दिशमास्थितः
निवासं कृतवान्राजा सामवेदपरो बली
त्रिवर्षं च कृतं राज्यं देवापिस्तनयोऽभवत् पितुस्तुल्यं कृतं राज्यं शृणु तत्कारणं मुने