याममात्रेण रामांशो हत्वा तस्य महागजम्
त्रियाममात्रेण तदा सायंकाले समागते
तदा वेला महाशत्रुं तारकं बलवत्तरम्
चितां कृत्वा विधानेन सा देवी द्रुपदात्मजा
तेन सार्द्धं च सा शुद्धा श्वशुरस्याज्ञया मुदा
तच्चितायां च भर्तारमिंदुलं बलवत्तरम्
रात्रौ परिमलो राजा लक्षणेन समन्वितः 3.3.32.
सपादलक्षाश्च तदा हतशेषा महाबलाः
धान्यपालः शतं भूपाँल्लक्षणश्च तथा शतम्
महीराजस्तदा दुःखी ध्यात्वा रुद्रं महेश्वरम् एकाकी गजमारुह्य ययौ चादिभयंकरम्
रुद्रदत्तेन बाणेन हत्वा परिमलं नृपम् लक्षणान्तमुपागम्य महद्युद्धमचीकरत्
महीराजस्य रौद्रास्त्रैस्सैन्यास्सर्वे क्षयं गताः
तदा तु लक्षणो वीरो वैष्णवास्त्रं समादधे तेनास्त्रतेजसा राजा महासंतापमाप्तवान्
ध्यात्वा रुद्रं महादेवं त्यक्त्वा विद्यां च वैष्णवीम्
हस्तिनी च तदा रुष्टा गजमादिभयंकरम्
उषःकाले च संप्राप्ते मलना पतिमुत्तमम्
तदा तु देवकी शुद्धं लक्षणं बलवत्तरम् 3.3.32.
प्रभाते विमले जाते चतुर्थे भौमवासरे ध्यात्वा सर्वमयीं देवीं स्थिरीभूय स्वयं स्थितः
एतस्मिन्नंतरे तत्र कलिर्भार्यासमन्वितः
योगेश्वराय शुद्धाय महावतीनिवासिने
रामांशस्त्वं महाबाहो मम पालनतत्परः
राजानः पावकीयाश्च तपोबलसमन्विताः योगमध्ये समासीनो नमस्तस्मै महात्मने
तेषां सैन्याः षष्टिलक्षाः क्रमाद्वीर त्वया हताः
इति श्रुत्वा स आह्लादो वचनं प्राह निर्भयः
पुनस्ते कार्यमतुलं करिष्यामि शृणुष्व भोः तस्य नेत्रे मया शुद्धे कर्तव्ये नीलरूपके
तव प्रियः सदा नीलस्तथैव च मम प्रियः
इत्युक्त्वा स तु रामांशो गजमारुह्य वेगतः 3.3.32.
रुद्रदत्तो गजस्तूर्णं पंचशब्दमुपस्थितः
अन्योन्येन तथा हत्वा गजौ स्वर्गमुपेयतुः
तदा भयातुरो राजा त्यक्त्वा युद्धं भयंकरम्