मर्दयित्वा च तच्चर्म च्छित्त्वा वर्म तदुद्भवम्
संध्याकाले हते तस्मिँल्लक्षणस्त्वरयान्वितः
भगदत्ते हते तस्मिन्स राजा क्रोधमूर्छितः प्रेषयामास युद्धाय मार्गे च प्रतिपद्दिने
अंगदश्च कलिंगश्च त्रिकोणः श्रीपतिस्तथा
सुकेतुर्नव भूपास्ते नवायुतबलैर्युताः
दृष्ट्वा ताँल्लक्षणो वीरो राजभिश्च स्वकीयकैः
रुद्रवर्मा च नृपतिः शूरैर्दशसहस्रकैः 3.3.32.
कालीवर्माऽयुतैस्सार्धं कलिंगं प्रत्यबुध्यत
ततोनुजः प्रवीरश्च श्रीपतिं सोऽयुतैस्सह श्रीतारं नृपमासाद्य महद्युद्धमचीकरत्
वामनोयुतसंयुक्तो मुकुंदं प्रति सोऽगमत्
लल्लसिंहोयुतैस्सार्द्धं गुहिलं प्रति सोऽगमत्
क्षुद्रभूपाः क्षुद्रभूपांस्त्रिशतानि समाययुः
चामुंडस्तु तदा दृष्ट्वा मृतकान्सर्वभूपतीन्
लक्षणो रक्तबीजं तं ज्ञात्वा ब्राह्मणसंमतम्
सायंकाले तु संप्राप्ते लक्षणो हस्तिनीस्थितः
द्वितीयायां प्रभाते च कृष्णांशो देवसंयुतः
तारकश्च सचामुंडो द्विलक्षबलसंयुतः 3.3.32.
पुरस्कृत्य ,नृपान्सर्वान्ससैन्यौ बलवत्तरौ
याममात्रेण तौ वीरौ हत्वा सर्वमहीपतीन्
चामुंडस्तारको धूर्तः संप्राप्तौ छिद्रदर्शिनौ
तेषां त्रियाममात्रेण संबभूव महान्रणः तलप्रहारेण रिपुं मूर्च्छयामास वीर्यवान्
एतस्मिन्नंतरे वीरस्तारको देवसिंहकम्
तच्छब्दात्स च चामुंडस्त्यक्त्वा मूर्छां महाबलः तयोर्गृहीत्वा शिरसी महीराजमुपाययौ
महीराजस्तु ते दृष्ट्वा परमानंदनिर्भरः
लक्षणस्य तदा सैन्ये हाहाशब्दो महानभूत् ब्रह्मानंदस्तदा मूर्च्छां त्यक्त्वा वेलामुवाच ह
प्रिये गच्छ रणं शीघ्रं हरिनागरमास्थिता
इति श्रुत्वा तु सा वेला रामांशेन समन्विता 3.3.32.
श्रुत्वा स लक्षणो वीरस्तालनेन समन्वितः
तृतीयायां प्रभाते च तारको बलवत्तरः
रक्तबीजश्च चामुंडो रामांशो बलवत्तरः