तेषामग्न्युद्भवानां च ये भूपा राज्यसत्कृताः
गच्छध्वं ब्राह्मणाः सर्वे योगनिद्रावशो ह्यहम्
पूर्णे द्वे च सहस्रान्ते सूतो वचनमब्रवीत्
प्रमरो नाम भूपालः कृतं राज्यं च षट्समाः
देवापिस्तनयस्तस्य पितु स्तुल्यं कृतं पदम्
तस्माद्गंधर्वसेनश्च पंचाशदब्दभूपदम् 3.1.7.
शंखेन तत्पदं प्राप्तं राज्यं त्रिंशत्समाः कृतम्
गंधर्वसेनं संप्राप्य पुत्ररत्नमजीजनत्
पेतुर्दुंदुभयो नेदुर्वांति वाताः सुखप्रदाः
विंशद्भिः कर्मयोगं च समाराध्य शिवोऽभवत्
शकानां च विनाशार्थमार्यधर्मविवृद्धये
विक्रमादित्यनामानं पिता कृत्वा मुमोद ह
पञ्चवर्षे वयःप्राप्ते तपसोऽर्थे वनं गतः
पश्चादम्बावतीं दिव्यां पुरीं यातः श्रियान्वितः
शिवेन प्रेषितं तस्मै सोपि तत्पदमग्रहीत्
एकदा स नृपो वीरो महाकालेशश्वरस्थलम् 3.1.7.
सभा धर्ममयी तत्र निर्मिता व्यूहविस्तरा
नानाद्रुमलताकीर्णा पुष्पवल्लीभिरन्विता
आहूय ब्राह्मणान्मुख्यान्वेदवेदांगपारगान्
एतस्मिन्नन्तरे तत्र वैतालो नाम देवता
उपविश्यासने विप्रो राजानमिदमब्रवीत्
वर्णयामि महाख्यानमितिहाससमुच्चयम्
शिवं मनसि संस्थाप्य राज्ञानमिदमब्रवीत् वाराणसी पुरी रम्या महेशो यत्र तिष्ठति
चातुर्वर्ण्यप्रजा यत्र प्रतापमुकुटो नृपः
तत्पुत्रो वज्रमुकुटो मंत्रिणः सुतवल्लभाः
अमात्यतनयश्चैव बुद्धिदक्ष इति श्रुतः
स दृष्ट्वा विपिनं रम्यं मृगपक्षिसमन्वितम्
तत्र दिव्यं सरो रम्यं नानापक्षिनिनादितम्
दृष्ट्वा तत्र गतौ वीरौ परमानंदमापतुः
दंतवक्त्रस्य तनया नाम्ना पद्मावती मता