स पंचशब्दं गजमारुरोह त्रिलक्षसैन्यैस्तरसा जगाम
स्वपंचलक्षैः प्रबलैश्च शूरैः सार्द्धं रुरोधाशु रिपोश्च सेनाम्
त्रियाम मात्रेण हताश्च सर्वे द्वयोश्च पक्षा बलशालिनश्च
स धुंधुकारश्च तदाजगाम रथ स्थितं लक्षणमुग्रवीरम्
स पंचशब्दं गजमास्थितो वै गतः स एवाशु जगाम भूपम्
गजं प्रमत्तं शिवदत्तमुग्रमाह्लादहन्तारमुवाच वाक्यम्
स मंडलीको रणदुर्मदश्च रामांश आह्लाद इति प्रसिद्धः 3.3.32.
इत्येवमुक्तो नृपतिं स हस्ती वचस्तमाहाशु शृणुष्व राजन्
इत्युक्तवंतं च गजं प्रमत्तं स पंचशब्दश्च तदा स्वदंतैः
स रुद्रदत्तश्च गजः प्रमत्तो रुषान्वधावत्तरसा गजेंद्रम्
अवाप मूर्छां च स पंचशब्दस्तदाशु भूपं प्रति मंडलीकः जगाम पद्भ्यां स रिपुप्रमाथी यत्र स्थितश्चेन्दुल उग्रधन्वा
उत्थाप्य पुत्रं च विलप्यमानां पत्नीं स्वकीयां प्रति चाजगाम
स लक्षणः खड्गवरेण बाणान्रिपोश्च छित्त्वा निजवैष्णवास्त्रम्
हते च तस्मिन्निजमुख्यबंधौ सभूमिराजश्च गृहीतचापः
स मूर्छितः शुक्ल कुलेषु सूर्यस्तदोदयो वै भगदत्तमेव
भयान्वितस्तं च विलोक्य राजा जवेन दुद्राव च रक्तबीजम्
बाणेन शीघ्रं स च मूर्च्छयित्वा पुनश्च देवं च स मूर्छयित्वा 3.3.32.
प्रधाय चापे च स वैष्णवास्त्रं प्रचोदयामास च रक्तबीजे भयान्वितः स्वैश्च युतो ययौ वै यत्र स्थिता भूपतयः सकोपाः
विलोक्य शत्रुं च स रत्नभानोः सुतो ययौ वै शिबिराणि युक्तः प्रातश्च काले स च चंद्रवंशी विलोक्य शुक्लान्वयमाह भूपम्
अये गु्र्जरदेशीय मूलवर्मन्सुतैः सह
इत्युक्तः स तु भूपालो युद्धभूमिमुपाययौ
दशपुत्रान्वितो युद्धे सैन्य लक्षेण संयुत्ः
हतेषु तेषु सर्वेषु तौ नृपौ ससुतैर्बलौ
मार्गकृष्णचतुर्दश्यां प्रभाते विमले रवौ लक्षणानुज्ञया प्राप्तस्तस्मिन्युधि भयानके
मद्रकेशस्तदा राजा दशपुत्रसमन्वितः परस्परं हताः सर्वे दिनान्ते क्षत्रिया रणे
पुनः प्रभाते विमले भगदत्तो महाबली
दृष्ट्वा तं लक्षणो वीरस्त्रिलक्षबलसंयुतः 3.3.32.
अपराह्णे हताः सर्वे सैनिका नृपयोस्तदा
लक्षणो रथमारुह्य स्वपितुः शत्रुजं नृपम्
भगदत्तस्तदा क्रुद्धो विरथं तं चकार ह हत्वा हयांस्तथा सूतं भगदत्तमुपाययौ