तदैव कीर्तिर्भविता ममाशु हत्वा भवंतं च सुखी भवामि
हतेऽङ्गभूपे दश तस्य पुत्रास्तमेव जग्मुर्युधि कौरवांशाः
उभौ च देवस्तु जघान तत्र भल्लेन सिद्धेन नृपात्मजौ च
शंखान्प्रदध्मू रुचिराननास्ते प्रदोषकाले शिबिराणि जग्मुः
गत्वा सभायां नृपतिं प्रणम्य वाक्यं समूचुः शृणु चंद्रवंशिन्
श्रुत्वाह भूपोद्य तु वीरसेनः सकामसेनः स्वबलैः समेतः ११८ स वीरसेनो नृपतिं प्रणम्य लक्षैः स्वसैन्यैर्युधि संजगाम
रणाय गच्छाशु सुतैः समेतो लक्षैः स्वसैन्यैरुत भूपवर्य 3.3.32.
इत्युक्तवंतं नृपतिं प्रणम्य सुवादयामास तदा हि वीरः
त्रियाममात्रेण हताश्च सर्वे विमानमारुह्य ययुश्च नाकम्
भवान्विसैन्यश्च तथैव चाहं भवान्सपुत्रश्च तथाहमेव
बाणैश्च बाणान्भुवि तौ च छित्त्वा बभूवस्तुस्तौ विरथौ नृपाग्र्यौ
स कामसेनः स्वरिपोश्च पुत्राञ्जघान बाणैश्च तदाष्टसंख्यान्
रिपोः शिरो जह्रतुरुग्रवेगी स कामसेनश्च कबंध एव
हतेषु सर्वेषु तदा त्रयस्ते चामुंडकाद्या जगनायकं ते
स दिव्यवाजी च तदा स्वपक्षौ प्रसार्य्य खेनाशु रिपुं जगाम
रथं च भूमौ भगदत्तकस्य विचूर्ण्य शीघ्रं च नभो जगाम
निशामुषित्वा जगनायकाद्याः प्रातः समुत्थाय रणं प्रजग्मुः 3.3.32.
उवाच राजञ्छृणु किन्नराणां महाबलास्ते रिपवो ममैते
इत्युक्तवान्मंकणभूपतिस्तु ययौ सपुत्रोऽयुतसैन्यपश्च
मनोरथस्थो जगनायकश्च स तालनो वै वडवां विगृह्य
पपीहकस्थश्च स रूपणो वै जगाम कृष्णांशसमन्वितश्च
समंततः किन्नरसैन्यघोरं विनाशयामासुरुपांशुखड्गैः
ध्यात्वा कुबेरं च गृहीतचापो नभोगतस्तत्र बभूव सूक्ष्मः
अदृश्यमानः स्वशरैः कठोरैर्विनर्द्य सर्वान्हि ननर्द घोरम्
ध्यात्वा महेंद्रं कणकं च बद्ध्वा कृष्णांशमागम्य पदौ ननाम
विनर्घ घोरं रुरुधुश्च सर्वान्माया विनो गुह्यकमस्त्रमूहुः
श्रमान्विताः सप्त महाप्रवीरा हतेषु सर्वेषु सुषुपुश्च वै यदा 3.3.32.
सुप्तान्समुत्थाय च सप्त शूरान्निशीथकाले स चकार युद्धम्
गृहीतखड्गौ रणघोरमत्तौ हत्वा ततो वै भुवि चेयतुश्च
ततः प्रभाते विमले विजाते रुरोद रामांश उताललाप