कृष्णांशस्तत्र चामुण्डं जित्वा तु लहरात्मजान् दध्मौ शंखं प्रसन्नात्मा लक्षणान्तमुपाययौ ।।3.3.32.
चामुंडो धुंधुकारश्च भगदत्तो युतः शतैः
इंदुलो देवसिंहश्च सहस्रैः संयुतौ मुदा
प्रातःकाले तु संप्राप्ते तृतीयायां भयंकरे
वचनं प्राह भो राजँस्त्वं त्रिवीरैः सुरक्षितः
तदा परिमलो भूपो नेत्रसिंहं महीपतिम्
तयोश्चासीन्महयुद्धं सेनयोरुभयोः क्रमात् पच्चराः पच्चरैः सार्द्धं शतघ्न्यश्च शतघ्निभिः
अपराह्ने मुनिश्रेष्ठ नेत्रसिंहो महाबलः
परस्परं च विरथौ संछिन्नधनुषौ तदा अन्योन्येन वधं कृत्वा स्वर्गलोकमुपागतौ
इन्दुलस्तं तु चामुंडं देवो वै धुंधुकं तथा
शेषैः पंचशतैः शूरैस्तैः सार्द्धं लक्षणं प्रति 3.3.32.
प्रातःकाले तु संप्राप्ते महीराजो महाबलः
भवान्दशसुतैर्वीरैर्लक्षसैन्यैश्च संयुतः इति श्रुत्वा स नृपतिर्वाद्यान्संवाद्य चाययौ
दृष्ट्वा परिमलो भूपो मायावर्माणमागतम्
भवान्दशसहस्रैश्च सार्द्धं तैस्त्रिभिरन्वितः
इति श्रुत्वा ययौ शीघ्रं सेनयोरुभयोर्महत्
हतास्ते दशसाहस्रा कृष्णांशाद्यैः सुरक्षिताः
एतस्मिन्नंतरे धीराः कृष्णांशाद्यास्तुरीयकाः
ततोंगभूपस्त्रिभिरेव बाणैरताडयन्मूर्ध्नि च पार्श्वयोर्वै ।। 3.3.32.
हयं समुड्डीय सु पुष्करान्तं ततोभ्यगात्तं नृपतिं रथस्थम्
तदैव कीर्तिर्भविता ममाशु हत्वा भवंतं च सुखी भवामि
हतेऽङ्गभूपे दश तस्य पुत्रास्तमेव जग्मुर्युधि कौरवांशाः
उभौ च देवस्तु जघान तत्र भल्लेन सिद्धेन नृपात्मजौ च
शंखान्प्रदध्मू रुचिराननास्ते प्रदोषकाले शिबिराणि जग्मुः
गत्वा सभायां नृपतिं प्रणम्य वाक्यं समूचुः शृणु चंद्रवंशिन्
श्रुत्वाह भूपोद्य तु वीरसेनः सकामसेनः स्वबलैः समेतः ११८ स वीरसेनो नृपतिं प्रणम्य लक्षैः स्वसैन्यैर्युधि संजगाम
रणाय गच्छाशु सुतैः समेतो लक्षैः स्वसैन्यैरुत भूपवर्य 3.3.32.
इत्युक्तवंतं नृपतिं प्रणम्य सुवादयामास तदा हि वीरः
त्रियाममात्रेण हताश्च सर्वे विमानमारुह्य ययुश्च नाकम्
भवान्विसैन्यश्च तथैव चाहं भवान्सपुत्रश्च तथाहमेव