वातवेगः सुवर्चाश्च नागदंतोग्रयाजकः
कुण्डश्च कुण्डधारश्च कौरवाः पूर्वजन्मनि 3.3.32.
नृपः शार्दूलवंशीयौ लक्षसैन्यसमन्वितः
वीरबाहुर्भीमरथश्चोग्रश्चैव धनुर्धरः
अनाधृष्टः कुण्डभेदी कौरवाः पूर्वजन्मनि
मंकणः किंनरो नाम रूपदेशे महीपतिः नरः किन्नरजातीयो वसति प्रियदर्शनः
मंकणश्च तदा प्राप्तः किन्नरायुतसंयुतः
विरावी प्रथमश्चैव प्रमाथी दीर्घरोमकः
पूर्वजन्मनि यन्नाम्ना तन्नाम्ना किन्नरा भुवि
नेत्रसिंहः समायातो लक्षसैन्यसमन्वितः
तदा गजपती राजा लक्षसैन्यसमन्वितः
मयूरध्वज एवापि लक्षसैन्यसमन्वितः 3.3.32.
वीरसेनः समायातः कामसेनसमन्वितः
लक्षणश्च समायातः सप्तलक्षबलैर्युतः
तालनो धान्यपालश्च लल्लसिंहस्तथैव च
आह्लादश्च समायातः कृष्णांशेन समन्वितः
जगन्नायक एवापि शूरायुतसमन्वितः
अन्ये च क्षुद्रभूपाश्च सहस्राढ्याः पृथक्पृथक्
मूलवर्मा च नृपतिः सपुत्रो लक्षसैन्यपः
कैकयो लक्षसेनाढ्यः सपुत्रो नृपतिः स्वयम्
नेत्रसिंहश्च नृपतिः स वीरो लक्षसैन्यपः
वीरसेनश्च लक्षाढ्यः सपुत्रश्चांद्रिपक्षगः 3.3.32.
आह्लादो लक्षसैन्याढ्यः पक्षगश्चंद्रवंशिनः एवं षोडशलक्षाढ्यः स्थितः परिमलो रणे
लहरो भूपतिश्रेष्ठो लक्षपः पुत्रसंयुतः
अभिनन्दन एवापि सपुत्रो लक्षसैन्यपः
नागवर्मा समायातः सपुत्रो लक्षसैन्यपः
पूर्णामलः सपुत्रश्च लक्षपश्चैव पक्षगः
गजराजः समायातो महीराजं हि लक्षपः
पुत्रः कृष्णकुमारस्य भगदत्तः समागतः
बलवाहनपुत्रश्च दशगोपालसंस्थितः महीराजमुपागम्य युद्धार्थं समुपस्थितः