बलश्च प्रबलश्चैव सुबलो बलवान्बली
कैकयश्चंद्रवंशीयो लक्षसैन्यसमन्वितः 3.3.32.
भीमवेगो भीमबलो बलाकी बलवर्द्धनः
जरासंधः सत्यसंधः पूर्वजन्मनि कौरवाः
कामः प्रकामः संकामो निष्कामो निरपत्रपः
नागवंशीयभूपालो नागवर्मा समागतः
पूर्वजन्मनि यन्नाम्ना तन्नाम्ना कौरवा भुवि
उग्रश्रवा उग्रसेनः सेनानीर्दुष्परायणः
दृढहस्तः सुहस्तश्च सुतास्ते नागवर्मणः
मद्रकेशः समायातस्तोमरान्वयसंभवः
वातवेगः सुवर्चाश्च नागदंतोग्रयाजकः
कुण्डश्च कुण्डधारश्च कौरवाः पूर्वजन्मनि 3.3.32.
नृपः शार्दूलवंशीयौ लक्षसैन्यसमन्वितः
वीरबाहुर्भीमरथश्चोग्रश्चैव धनुर्धरः
अनाधृष्टः कुण्डभेदी कौरवाः पूर्वजन्मनि
मंकणः किंनरो नाम रूपदेशे महीपतिः नरः किन्नरजातीयो वसति प्रियदर्शनः
मंकणश्च तदा प्राप्तः किन्नरायुतसंयुतः
विरावी प्रथमश्चैव प्रमाथी दीर्घरोमकः
पूर्वजन्मनि यन्नाम्ना तन्नाम्ना किन्नरा भुवि
नेत्रसिंहः समायातो लक्षसैन्यसमन्वितः
तदा गजपती राजा लक्षसैन्यसमन्वितः
मयूरध्वज एवापि लक्षसैन्यसमन्वितः 3.3.32.
वीरसेनः समायातः कामसेनसमन्वितः
लक्षणश्च समायातः सप्तलक्षबलैर्युतः
तालनो धान्यपालश्च लल्लसिंहस्तथैव च
आह्लादश्च समायातः कृष्णांशेन समन्वितः
जगन्नायक एवापि शूरायुतसमन्वितः
अन्ये च क्षुद्रभूपाश्च सहस्राढ्याः पृथक्पृथक्
मूलवर्मा च नृपतिः सपुत्रो लक्षसैन्यपः
कैकयो लक्षसेनाढ्यः सपुत्रो नृपतिः स्वयम्