स्थित्वा तत्र समस्वान्तो भज त्वं सर्वमंगलाम्
तारकं च तथा हत्वा त्वत्समीपं व्रजाम्यहम्
वेला नाम शुभा नारी हरिनागरसंस्थिता
एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः
महीपतिं प्रियं मत्वा कृष्णांशं नृप दुष्प्रियम्
महीराजसुतैर्धूर्तैस्तारकाद्यैर्महाबलैः
स्वामिनं प्रति चागम्य ते जग्मुश्छद्मना प्रियम् तस्माद्यूयं मया सार्द्धं गंतुमर्हथ तं प्रति
इति घोरतमं वाक्यं श्रुत्वा सर्वे शुचान्विताः
इत्युक्त्वोच्चैश्च रुरुदुः कृष्णांशाद्या महाबलाः
क्रोधयुक्ता तदा वेला लिखित्वा पत्रमुल्बणम्
तत्पत्रं च महीराजो वाचयित्वा विधानतः
चिन्ताकलेवरं प्राप्य सुखनिद्रां व्यनाशयत् 3.3.32.
चतुर्विंशतिलक्षैश्च शूरैर्भूपसमन्वितैः
तथा परिमलो भूपो लक्षषोडशसैन्यपः
स्यमन्तपंचके तीर्थे शिबिराणि चकार ह
गंगाकूले च ते सर्वे कौरवांशा महाबलाः
कृत्वा ते कार्तिकीस्नानं दत्त्वा दानान्यनेकशः
विष्वक्सेनीयभूपालो लहरस्तत्र चागतः पूर्वजन्मनि यन्नाम तन्नाम्ना प्रश्रिता इह
दुस्सहो दुश्शलश्चैव जलसंधः समः सहः
दुर्मर्षणश्च दुष्कर्णः सोमकीर्तिरनूदरः
तोमरान्वयभूपालो बाह्लीकपतिरागतः
चित्रोपचित्रौ चित्राक्षश्चारुश्चित्रः शरासनः 3.3.32.
तेषामंशाः क्रमाज्जाता अभिनंदनदेहजाः सुनंदश्च सुरानन्दः प्रनंदः कौरवांशकः
नृपः परिहरवंशीयो मायावर्मा महाबली
दुर्मदो दुर्विगाहश्च नंदश्च विकटाननः
ऊर्णनाभः सुनाभश्च चोपनंदश्च कौरवाः ।। तेषामंशाः क्रमाज्जाताः सुता अंगपतेः स्मृताः
मत्तः प्रमत्त उन्मत्तः सुमत्तो दुर्मदस्तथा
शुक्लवंशीयभूपालो मूलवर्मा समागतः
अयोबाहुर्महाबाहुश्चित्रांगश्चित्रकुण्डलः
दृढवर्मा दृढक्षत्रः पूर्वजन्मनि कौरवाः