पंचमाब्दवया भूत्वा श्रीदं तुष्टाव भक्तितः
तत्सर्वनिधिभावेन नृपकोशः समन्ततः
किंनरी नाम या कन्या मंकणस्य प्रकीर्तिता इति ते कथितं सर्वं विवाहचरितं मुने
धुन्धुकारो महाशूरो लक्षसैन्यसमन्वितः
एकत्रिंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ब्रह्मास्त्रं चाप आधाय चार्धसैन्यमदाहयत्
पंचायुताश्च ते शूरा भयभीता दिशो गताः 3.3.31.
महीराजस्तदा दुःखी भयभीतः समंततः
कथं जयो मे भविता तत्सर्वं मंत्रयाशु वै
कृत्वा नारीमयं वेषं चामुण्डं बलशालिनम्
चत्वारस्ते सुताः शूरा धुंधुकारेण संयुता
इति श्रुत्वा महीराजो ब्रह्मानंदाय हर्षितः
सायंकाले तु संप्राप्ते माघशुक्लाष्टमीदिने
छद्मना च त्रिशूलं च बलात्कृत्वा रिपूदरे
तारको हृदि तं बाणैः सूर्यवर्मा च तोमरैः धुंधुकारश्च भल्लेन जघान रिपुमूर्द्धनि
मूर्छितः पतितो भूमौ बह्मानंदो महाबलः
भीमस्य च शिरः कायाद्वर्द्धनस्य तथैव च 3.3.31.
तारको धुंधुकारश्च चामु ण्डश्च तथैव च
हतेषु तेषु पुत्रेषु महीराजो भयातुरः
इति श्रुत्वा तदा वेला दोलामारुह्य सत्वरम्
कनिष्ठामृतभावेन वेलाया बलवांस्तदा
का त्वं कस्य सुता रम्या संग्रामे मामुपस्थिता
इति श्रुत्वा तदा वेला जलं दत्त्वा शुचान्विता
वेला नाम महीभर्तुः सुताहं त्वामुपस्थिता जीवनं कुरु राजेंद्र भुंक्ष्व भोगान्मया सह
इत्युक्तः स तु तामाह कलिकाले समागते
हरिनागरमारुह्य मया सार्द्धं शुभानने
इत्पुक्त्वा तौ समारुह्य पूर्वे च कपिलान्तिकम् 3.3.31.
पृथक्पृथक्सुतार्थानि स्नात्वा दत्त्वा च .जग्मतुः
उत्तरे बदरीस्थाने स्नात्वा तीर्थानि जग्मतुः
वेलामुवाच वचनं भाद्रशुक्लाष्टमीदिने
इति श्रुत्वा तु सा प्राह स्वामिन्मद्वचनं कुरु