देवानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
मौर्यानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
एतस्मिन्नेव काले तु कलिना संस्मृतो हरिः
बौद्धधर्मं च संस्कत्य पट्टणे प्राप्तवान्हरिः
विंशद्वर्षं कृतं राज्यं तस्माच्छुद्धोदनोऽभवत्
शताद्रौ द्विसहस्रेऽब्दे व्यतीते सोऽभवन्नृपः
षष्टिवर्षं कृतं राज्यं सर्वबौद्धा नराः स्मृताः 3.1.6.
विष्णोर्वीर्यानुसारेण जगद्धर्मः प्रवर्त्तते
अपि पापसमाचारा मोक्षवंतः प्रकीर्तिताः
चंद्रगुप्तस्तस्य सुतः पौरसा धिपतेः सुताम्
षष्टिवर्षं कृतं राज्यं बिंदुसारस्ततोऽभवत्
एतस्मिन्नेव काले तु कान्यकुब्जो द्विजोत्तमः
वेदमंत्रप्रभावाच्च जाताश्चत्वारि क्षत्रियाः
त्रिवेदी च तथा शुक्लोथर्वा स परिहारकः
अशोकं स्ववशं चकुस्सर्वे बौद्धा विनाशिताः
अवन्ते प्रमरो भूपश्चतुर्योजनविस्तृताम्
कलिंजरपुरं रम्यमक्रोशायतनं स्मृतम्
अध्यास्य बौद्धहंता स सुखितोभवदूर्जितः
अजमेरपुरं रम्यं विधिशोभासमन्वितम्
शुक्लो नाम महीपालो गत आनर्तऽमंडले
तेषामग्न्युद्भवानां च ये भूपा राज्यसत्कृताः
गच्छध्वं ब्राह्मणाः सर्वे योगनिद्रावशो ह्यहम्
पूर्णे द्वे च सहस्रान्ते सूतो वचनमब्रवीत्
प्रमरो नाम भूपालः कृतं राज्यं च षट्समाः
देवापिस्तनयस्तस्य पितु स्तुल्यं कृतं पदम्
तस्माद्गंधर्वसेनश्च पंचाशदब्दभूपदम् 3.1.7.
शंखेन तत्पदं प्राप्तं राज्यं त्रिंशत्समाः कृतम्
गंधर्वसेनं संप्राप्य पुत्ररत्नमजीजनत्
पेतुर्दुंदुभयो नेदुर्वांति वाताः सुखप्रदाः
विंशद्भिः कर्मयोगं च समाराध्य शिवोऽभवत्