इति श्रुत्वा स कृष्णांशः खड्गयुद्धमचीकरत् तदा च देहलीं प्राप्य महीराजान्तमाययौ
कोटिस्वर्णं ददौ राजा कृष्णांशाय महात्मने
वसूनाराधायामास पंचवर्षान्तरे मुदा
वरदानाच्च सञ्जाता दश पुत्रा महीपतेः १३७ तद्विवाहार्थमाहूय महीराजं महाबलम्
महीराजसुतो भीमः पत्नीं प्राप्य मनोरमाम्
तदा पैशाचदेशस्थः सहोदश्च महीपतिः 3.3.31.
बलिदैत्याज्ञया प्राप्तः कुरुक्षेत्रं शुभस्थलम्
पत्रमालिख्य बलवान्महीराजाय धर्मिणे
भवान्म्लेच्छपती राजा विद्युन्मालार्थमुद्यतः
इत्युक्त्वा स त्रिलक्षैश्च कुरुक्षेत्रमुपागतः
निशीथे समनुप्राप्ते ज्येष्ठे मासि तमोमये
नृपसैन्यं जघानाशु भक्षयित्वा पुनः पुनः
एतस्मिन्नंतरे देवाः कृष्णांशाद्या महाबलाः
हत्वा दैत्यसहस्राणि बलिदैत्यमुपाययुः स्वखड्गैस्तर्पयामास दैत्यराजं महाबलम्
तदा प्रसन्नो बलवान्दैत्यराजो बलिः स्वयम्
आर्यदेशं च ते दैत्या नागच्छन्तु त्वया सह 3.3.31.
इति श्रुत्वा वचो घोरं विप्रियं च बलिः स्वयम्
तदा प्रसन्नः कृष्णांशो वचनं प्राह निर्भयः तत्पश्चाद्भूमिमागत्य यथायोग्यं कुरुष्व भोः
इति तद्वचनं श्रुत्वा सहोदो नीलसंयुतः
भूमिराजः प्रसन्नात्मा कोटिस्वर्णं ददौ तदा
पंचमाब्दवया भूत्वा श्रीदं तुष्टाव भक्तितः
तत्सर्वनिधिभावेन नृपकोशः समन्ततः
किंनरी नाम या कन्या मंकणस्य प्रकीर्तिता इति ते कथितं सर्वं विवाहचरितं मुने
धुन्धुकारो महाशूरो लक्षसैन्यसमन्वितः
एकत्रिंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ब्रह्मास्त्रं चाप आधाय चार्धसैन्यमदाहयत्
पंचायुताश्च ते शूरा भयभीता दिशो गताः 3.3.31.
महीराजस्तदा दुःखी भयभीतः समंततः
कथं जयो मे भविता तत्सर्वं मंत्रयाशु वै
कृत्वा नारीमयं वेषं चामुण्डं बलशालिनम्
चत्वारस्ते सुताः शूरा धुंधुकारेण संयुता