इत्युक्ता साह तं वीरं पुंडरीकश्च मत्पतिः
इति श्रुत्वा विहस्याह तव भर्तुर्न नो भयम्
प्रबुद्धश्च तदा राजा नागानां च महाबलः
दृष्ट्वा तद्विषमुज्ज्वालं स ध्यात्वा सर्वमंगलाम्
पुंडरीकः प्रसन्नात्मा नागभूषणमुत्तमम्
आह्लादस्तु हयारूढो महीराजाय दत्तवान् कोटिस्वर्णं नृपात्प्राप्तं गृहीत्वा शीघ्रमाययौ
हयविद्यासमारूढास्ते हया गेहमागताः 3.3.31.
सूत उवाच पञ्चाब्दं पूजयामास स्वर्गवैद्यौ सुरोत्तमौ
तयोश्च वरदानेन दश पुत्रा बभूविरे
स महीराजमाहूय त्रिलक्षबलसंयुतम्
नवोढां तु तदा पत्नीं सूर्यवर्मा गृहीतवान्
कर्बुरोनाम मायावी विभीषणसुतो बली
मद्रकेशस्य तनयां दिव्यशोभासमन्वि ताम्
महीराजस्तदा दुःखी विललाप भृशं मुहुः
कृष्णांशं प्रेषयामास स गत्वा समवर्णयत्
सह्याद्रिगिरिमागम्य कृष्णां शः कर्बुरं प्रति
विभीषणो भक्तराजस्तस्य त्वं दयितः सुतः रावणेन पुरा सीता संहृता विदितं तव ।। 3.3.31.
इति श्रुत्वा स होवाच पुरेयं दयिता प्रिया
अतोऽहं तद्वियोगेन त्यक्त्वा लंकां महापुरीम् न जहार प्रियां रम्यां तत्रोषित्वा दिनं बहु
अद्य मे वशगा साभून्नाम्ना कांतिमती शुभा
इति श्रुत्वा स कृष्णांशः खड्गयुद्धमचीकरत् तदा च देहलीं प्राप्य महीराजान्तमाययौ
कोटिस्वर्णं ददौ राजा कृष्णांशाय महात्मने
वसूनाराधायामास पंचवर्षान्तरे मुदा
वरदानाच्च सञ्जाता दश पुत्रा महीपतेः १३७ तद्विवाहार्थमाहूय महीराजं महाबलम्
महीराजसुतो भीमः पत्नीं प्राप्य मनोरमाम्
तदा पैशाचदेशस्थः सहोदश्च महीपतिः 3.3.31.
बलिदैत्याज्ञया प्राप्तः कुरुक्षेत्रं शुभस्थलम्
पत्रमालिख्य बलवान्महीराजाय धर्मिणे
भवान्म्लेच्छपती राजा विद्युन्मालार्थमुद्यतः
इत्युक्त्वा स त्रिलक्षैश्च कुरुक्षेत्रमुपागतः