भयभीतास्तदा सर्वे रामांशं शरणं ययुः
दिवासूक्तेन तुष्टाव तदा प्रादुरभूच्छिवा
पराजिते च गंधर्वे कृष्णांशो जनमोहनः
षोडशाब्दे च कृष्णांशे संप्राप्ते देविपूजके
पत्नी नागवती तस्य तक्षकस्य सुता शुभा
दशैव तनयाश्चासन्कन्या तस्य शुभानना
पुरोहितं समाहूय महीराजाय प्रैषयत् 3.3.31.
महीराजस्तु तच्छ्रुत्वा त्रिलक्षबलसंयुतः
सुवेला पितरं प्राह देहि मे नागभूषणम्
इति श्रुत्वा नागवर्मा महीराजान्तमाययौ
इत्युक्तः स महीराजो विस्मितोभूत्सुदुःखितः
इति ज्ञात्वा तदाऽऽह्लादः शूरपंचशतावृतः
शतयोजनगामिन्यो वाजिन्यश्च द्वियामके सहस्रयोजनं वीर्यं तासां चैव दिने निशि
कलांशादुद्भवा अश्वा वाजिना च हरेः स्वयम्
गायत्रो योभवद्वाजी कालचक्रप्रवर्तकः हरिणी नाम तच्छक्तिः कलांशाद्भूमिमागता
आह्लादश्च करालस्थो बिंदुलस्थो हरेः कला
गत्वा ते तु महीराजं नत्वा तुंगासनां ययुः 3.3.31.
मम पुत्राश्च युष्माभिस्त्रयः शूरा विवाहिताः
इति श्रुत्वा स आह्लादो गत्वा भूतलमुत्तमम्
सुप्तो हि तव भर्ता च पुंडरीकः शुभाननः
इत्युक्ता साह तं वीरं पुंडरीकश्च मत्पतिः
इति श्रुत्वा विहस्याह तव भर्तुर्न नो भयम्
प्रबुद्धश्च तदा राजा नागानां च महाबलः
दृष्ट्वा तद्विषमुज्ज्वालं स ध्यात्वा सर्वमंगलाम्
पुंडरीकः प्रसन्नात्मा नागभूषणमुत्तमम्
आह्लादस्तु हयारूढो महीराजाय दत्तवान् कोटिस्वर्णं नृपात्प्राप्तं गृहीत्वा शीघ्रमाययौ
हयविद्यासमारूढास्ते हया गेहमागताः 3.3.31.
सूत उवाच पञ्चाब्दं पूजयामास स्वर्गवैद्यौ सुरोत्तमौ
तयोश्च वरदानेन दश पुत्रा बभूविरे
स महीराजमाहूय त्रिलक्षबलसंयुतम्