बलश्च प्रबलश्चैव सुबलो बलवान्बली
करभो नाम वै यक्षो लल्लराजस्य सेवकः पञ्चवर्षांतरे जाते तेन भुक्ता कुमारिका
मूलवर्मा महीराजं समाहूय ससैन्यकम्
प्रभावतीं शुभां कन्यां नृहराय ददाम्यहम् ददौ वेदविधानेन सुतां च नृहराय वै
पक्षमात्रांतरे यक्षः करभस्तत्र चागतः
महीराजस्तदा दुःखी वत्सजौ बलवत्तरौ
इति श्रुत्वा स कृष्णांशः करभं यक्षकिंकरम्
भ्रातरौ तौ समागम्य नागपाशं तु चासिना भूमिराजः प्रसन्नात्मा देहलीं मुदितोऽगमत्।। 3.3.31.
सूत उवाच काश्मीरे च नृपश्चासीत्कैकयो नाम विश्रुतः
कामः प्रकामः सकामो निष्कामो निरपत्रपः
स भूपो भूमिराजं च समाहूय वचोऽब्रवीत्
गंधर्वस्सुकलो नाम मत्कन्यां च शुभाननाम्
पूर्णिमायां च संप्राप्तः स वै चित्ररथप्रियः वधं कुरु नृपश्रेष्ठ देहलीं गंतुमर्हसि
इति श्रुत्वा महीराजो लक्षसैन्यसमन्वितः
वैशाख्यां सुखजातायां सुकलोनाम वीर्यवान्
नगराच्च बहिर्जाता ये शूरा मदविह्वलाः
भयभीतो महीराजो ध्यात्वा सर्वमयीं शिवाम्
कृष्णांशादीन्बोधयित्वा तैश्च सार्धं समागमत् 3.3.31.
बलखानिश्च बलवाञ्छतगंधर्वमुत्तमम्
बहुधा ते हि गंधर्वास्तैश्च सार्द्धं समारुधन्
भयभीतास्तदा सर्वे रामांशं शरणं ययुः
दिवासूक्तेन तुष्टाव तदा प्रादुरभूच्छिवा
पराजिते च गंधर्वे कृष्णांशो जनमोहनः
षोडशाब्दे च कृष्णांशे संप्राप्ते देविपूजके
पत्नी नागवती तस्य तक्षकस्य सुता शुभा
दशैव तनयाश्चासन्कन्या तस्य शुभानना
पुरोहितं समाहूय महीराजाय प्रैषयत् 3.3.31.
महीराजस्तु तच्छ्रुत्वा त्रिलक्षबलसंयुतः
सुवेला पितरं प्राह देहि मे नागभूषणम्
इति श्रुत्वा नागवर्मा महीराजान्तमाययौ