सायंकाले तु संप्राप्ते महीराजस्य मंदिरे
अगमा च समालोक्य परं हर्षमुपाययौ श्यालानां योषितः सप्त ददर्श रुचिरानना
तिस्रो नार्यश्च विधवाश्चतस्रो धवसंयुताः
ब्रह्मानंद महाभाग सावधानं वचः शृणु संजहार धवानेव नो वयं तु सुदुःखिता
सापत्न्यमस्तु तत्तस्या गृहाणास्मान्मनोहर
इति श्रुत्वा वचस्तासां ब्रह्मानंदो महाबलः
पुरा सत्ययुगे नारी चोत्तमा च पतिव्रता
अधमा हि कलौ नारी परपुंसोपभोगिनी देवलेन शुभः प्रोक्तश्चासितेन स्वयं स्मृतौ
सती सत्ये तु सा प्रोक्ता त्रेतायां पतिभस्मगा ।।3.3.31.
सती सा मध्यमा प्रोक्ता द्वापरे विधवा सती
अतो यूयं मया सार्द्धं भुंक्षध्वममलं सुखम्
कृत्वा शृंगार रूपाणि भूषणानि च सर्वशः
ता दृष्ट्वा मलनापुत्रो वचनं प्राह निर्भयः
युष्माभिः पतयो मुक्ता ये च मद्बंधुना हताः
युष्मानतो न गृह्णीयां सत्यंसत्यं ब्रवीम्यहम्
महीराजन्तमागम्य रुरुदुर्भृशदुःखिताः दंडं देहि च धूर्ताय नो चेत्प्राणांस्त्यजाम्यहम्
इति श्रुत्वा महीराजो ब्रह्मानन्दं महाबलम्
परस्त्रियं च यो भुंक्ते स याति यममंदिरम्
इतिश्रुत्वा वचो घोरं ब्रह्मानंदो महाबलः 3.3.31.
दृष्ट्वा भयातुरो राजा चामुंडान्तमुपाययौ
तासां कथं विवाहाः स्युस्तत्त्वं नो ब्रूहि विस्तरात्
सूत उवाच। तामसीं पूजयित्वा वै शक्तिं सर्वविमोहिनीम्
वर्मोत्तमं तया दत्तं सर्वसत्त्वभयंकरम्। गृहीत्वा स तु भूपालः प्रस्थितोऽभून्महीतले
प्रमदा नाम तत्पत्नी दश पुत्रानसूषुवत्
मत्तः प्रमत्त उन्मत्त सुमत्तो दुर्मदस्तथा॥ दुर्मुखो दुर्धरो बाहुः सुरथो विरथः क्रमात्। तेषां स्वसानुजा चासीत्सुनाम्ना मदिरेक्षणा
तस्या वै सुंदरं रूपं मदाघूर्णितलोचनम्
मायावर्माणमागत्य वचनं प्राह नम्रधीः
तर्हि ते सकलं कार्यं करिष्यामि न संशयः
कितवो गह्वरावासी रात्रौ घोरे तमोवृते प्रातःकाले तु तां त्यक्त्वा कन्दरान्तमुपाययौ॥3.3.31.
वर्मदेवमते जाते ततो राजा मदातुरः महीराजाय संप्रेष्य तारकं स समावृणोत्