वधूस्तव महाराज्ञि वेला नाम सुरूपिणी
कुजातिश्चैव कृष्णांशः श्रुतो राज्ञा महात्मना अतो मद्वचनं मत्वा कुरु कार्यं तव प्रियम्
मया सार्द्धं तव सुतो ब्रह्मानंदो महाबलः
महीराजमुपागम्य पत्नीं शीघ्रमवाप्स्यति
इति श्रुत्वा तु सा राज्ञी मोहिता देवमायया कथयामास वै सर्वं श्रुत्वा भूपोऽब्रवीदिदम्
महीपतिर्महाधूर्तो मद्विनाशाय चोद्यतः
इति श्रुत्वा च मलना राजानं कोपसंयुतम् वचनं कुरु मे राजन्नो चेत्प्राणांस्त्यजाम्यहम्
इत्युक्तवादिनीं रात्रौ तदा परिमलो नृपः
मातुराज्ञां पुरस्कृत्य मातुलेन समन्वितः 3.3.31.
प्रातःकाले च संप्राप्ते हरिनागरमास्थितः
सायंकाले तु संप्राप्ते महीराजस्य मंदिरे
अगमा च समालोक्य परं हर्षमुपाययौ श्यालानां योषितः सप्त ददर्श रुचिरानना
तिस्रो नार्यश्च विधवाश्चतस्रो धवसंयुताः
ब्रह्मानंद महाभाग सावधानं वचः शृणु संजहार धवानेव नो वयं तु सुदुःखिता
सापत्न्यमस्तु तत्तस्या गृहाणास्मान्मनोहर
इति श्रुत्वा वचस्तासां ब्रह्मानंदो महाबलः
पुरा सत्ययुगे नारी चोत्तमा च पतिव्रता
अधमा हि कलौ नारी परपुंसोपभोगिनी देवलेन शुभः प्रोक्तश्चासितेन स्वयं स्मृतौ
सती सत्ये तु सा प्रोक्ता त्रेतायां पतिभस्मगा ।।3.3.31.
सती सा मध्यमा प्रोक्ता द्वापरे विधवा सती
अतो यूयं मया सार्द्धं भुंक्षध्वममलं सुखम्
कृत्वा शृंगार रूपाणि भूषणानि च सर्वशः
ता दृष्ट्वा मलनापुत्रो वचनं प्राह निर्भयः
युष्माभिः पतयो मुक्ता ये च मद्बंधुना हताः
युष्मानतो न गृह्णीयां सत्यंसत्यं ब्रवीम्यहम्
महीराजन्तमागम्य रुरुदुर्भृशदुःखिताः दंडं देहि च धूर्ताय नो चेत्प्राणांस्त्यजाम्यहम्
इति श्रुत्वा महीराजो ब्रह्मानन्दं महाबलम्
परस्त्रियं च यो भुंक्ते स याति यममंदिरम्
इतिश्रुत्वा वचो घोरं ब्रह्मानंदो महाबलः 3.3.31.
दृष्ट्वा भयातुरो राजा चामुंडान्तमुपाययौ