तयोश्चासीन्महद्युद्धं सेनयोरुभयोस्तदा
पद्मिनीं शरणं प्राप्य तदा भ्राता पिता स्थितः अन्तर्द्धानमयं पत्रं तयोरर्थे च सा ददौ
तौ तत्रान्तर्हितौ भूत्वा स्वखड्गेन रिपोर्बलम्
तालनाद्या रणं त्यक्त्वा कृष्णांणशं शरणं ययुः
दिव्यदृष्टिस्ततो जातः संप्राप्य तमयुध्यत 3.3.30.
बद्ध्वा तत्र मुदाविष्टो लक्षणं प्राप्य निर्भयः
जयचंद्राय भूपाय दत्त्वा वै तौ च दंपती
जयचंद्रोऽपि बलवान्दृष्ट्वा गेहे स्वदंपती ज्येष्ठे मासि सिते पक्षे कृष्णांशो गेहमागतः
इति ते कथितं विप्र कृष्णांशचरितं शुभम्
महीराजं सदःस्थं तं चन्द्रतुल्यस्समागतः
तमागतं समालोक्य स राजा शोकतत्परः
कृष्णांशाद्यैर्महाशूरैर्मद्ग्रामे भयमागतम्
इत्युक्तस्स तु शुद्धात्मा ध्यात्वा सर्वमयीं शिवाम्
जिष्णोरंशात्समुद्भूतो ब्रह्मानंदो महावतीम्
यदा च मलनापुत्रो देहं त्यक्त्वा गमिष्यति
इत्येवंवादिनं धीरममात्यं च महीपतिः
एकाकिनं महाशूरं ब्रह्मानंदं नृपोत्तमम् छद्मना घातयित्वा तं कृतकृत्यो भविष्यति
इत्युक्ते नृपतिं प्राह महीराजः प्रसन्नधीः
मलनां च समागत्य बोधयित्वा तु तां स्वयम् 3.3.31.
इति श्रुत्वा तु वचनं नत्वा तं च महीपतिः
वधूस्तव महाराज्ञि वेला नाम सुरूपिणी
कुजातिश्चैव कृष्णांशः श्रुतो राज्ञा महात्मना अतो मद्वचनं मत्वा कुरु कार्यं तव प्रियम्
मया सार्द्धं तव सुतो ब्रह्मानंदो महाबलः
महीराजमुपागम्य पत्नीं शीघ्रमवाप्स्यति
इति श्रुत्वा तु सा राज्ञी मोहिता देवमायया कथयामास वै सर्वं श्रुत्वा भूपोऽब्रवीदिदम्
महीपतिर्महाधूर्तो मद्विनाशाय चोद्यतः
इति श्रुत्वा च मलना राजानं कोपसंयुतम् वचनं कुरु मे राजन्नो चेत्प्राणांस्त्यजाम्यहम्
इत्युक्तवादिनीं रात्रौ तदा परिमलो नृपः
मातुराज्ञां पुरस्कृत्य मातुलेन समन्वितः 3.3.31.
प्रातःकाले च संप्राप्ते हरिनागरमास्थितः