तदा स्वर्णवती देवी स्वदास्या शोभया सह
तया संप्रेषिता शोभा म्लेच्छमायाविशारदा
उवाच वचनं तत्र शृणु भूपशिरोमणे
दंपती तव भूपाल संहृतौ येन यत्र वै
आह्लादश्चेन्दुलो वीरो देवो वै तालनो बली
इत्युक्त्वा शोभना वेश्या कृत्वा योगमयं वपुः प्रययौ तान्पुरस्कृत्य योगिवेषान्महाब लान्।। 3.3.30.
आह्लादो गजसंस्थो वै करालारूढ इन्दुलः कृष्णांशो बिन्दुलारूढो नर्तयामास तं हयम्
कामरूपमयं देशं शतयोजनगामिनः लक्षणं शोधयामासुर्न प्राप्तास्तत्र तं नृपम्
पुनर्मयूरनगरं शोभना तैः समन्विता
पुनरिन्नगढग्रामं शोभना च जनेजने
गत्वा बाह्लीकनगरं शोभना तैस्समन्विता
पुनः स्वदेशमागम्य बाह्लीकं म्लेच्छवासिनम् पूजयित्वा च सा वेश्या गाननृत्यपराभवत्
स देवो भूमिमध्यात् समागम्य मुदान्वितः
अहं कालाग्निरुद्रेण भूमिगर्ते सुरोपितः
इति श्रुत्वा च सा शोभा निराशाभूत्तदा स्वयम्
पुनः स्वर्णवतीं प्राप्य सर्वमेवा दितोऽब्रवीत् 3.3.30.
तानाश्वास्य सुवर्णांगी पूजयामास चंडिकाम् निशीथान्ते तमःप्राप्ते गत्वाह जगदम्बिका
पद्मिनी नाम या नारी मणिदेवस्य वै प्रिया
सेनापतिः कुबेरस्य मणिदेवो हि स स्मृतः
तदा तत्पद्मिनी नारी देवदेवमुमापतिम्
शतवर्षांतरे देवो महादेव उवाच ताम्
नकुलांशं च संप्राप्य भुक्त्वा तेन महत्सुखम् स्वपतिं च तदा प्राप्य कैलासं पुनरेष्यसि
महावतीं पुरीं रम्यां राष्ट्रपालाय शारदा
तया विरचितो भूमौ ग्रामरक्षार्थमुद्यतः
अतः स्वर्णवति त्वं वै कैलासं गुह्यकालयम्
इति श्रुत्वा स्वर्णवती पद्मिनीं प्रति चागमत् 3.3.30.
कामपालगृहं प्राप्य तत्र वासमकारयत्
तस्यां गतायां गेहे वै पद्मिन्या लिखितं शुभम्
इति ज्ञात्वा च कृष्णांशो लक्षद्वादशसेनया
कामपालस्तु बलवांस्त्रिलक्षबलसंयुतः