तत्रोदयश्च कृष्णांशः पूर्णब्रह्माणमागमत्
अग्निवंशविनाशाय चाद्य यास्यामि देहलीम्
पुनस्तवान्तिकं प्राप्य रहः क्रीडां करोम्यहम् इत्यहं दृष्टवान्भूप कृष्णांशं योगनिद्रया
इति तस्य वचः श्रुत्वा स भूपो विस्मयान्वितः तेभ्यश्च लक्षणं दत्त्वा वचनं प्राह तान्प्रति
पद्माकराय भूपाय गत्वा दत्त्वाशु लक्षणम्
इति श्रुत्वा तु ते सर्वे वह्निवंश्या महाबलाः 3.3.30.
भगदंतश्च तेषां तु सहस्राणां च नायकः
पद्मिनी मे स्वसा राजन् गुप्तविद्याविशारदा
दत्तस्तेन वरो रम्यो ह्यन्तर्धानमयः परः इति श्रुत्वा स नृपतिः परमानन्दमाप्तवान्
एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः
स तदा पृथिवीराजो गृहीत्वा बहुभूषणम्
लक्षणो नाम ते राजा कारागारे न वै मम
इत्युक्त्वा तं च कृष्णांशं दर्शयामास वै गृहम्
तदोदयो भूपवचः सत्यं मत्वा सुदुःखितः
कामपालस्तु तच्छ्रुत्वा कृष्णांशागमनं बली प्रांजलिः प्रणतो भूत्वा वचनं प्राह भीरुकः
सुता मे पद्मिनी नारी लक्षणेन समन्विता 3.3.30.
इति तद्वचनं श्रुत्वा कृष्णांशः स्वबलैस्सह
भ्रातृजस्तव भूपाल पद्मिन्या लक्षणोऽन्वितः
न जाने क्व गतो राजा मम प्राणसमो भुवि
हा रत्नभानुतनय विष्णुभक्त शुभंकर इत्युक्त्वा मूर्छितश्चासीत्कृष्णांशो वैष्णवप्रियः
तदा स्वर्णवती देवी स्वदास्या शोभया सह
तया संप्रेषिता शोभा म्लेच्छमायाविशारदा
उवाच वचनं तत्र शृणु भूपशिरोमणे
दंपती तव भूपाल संहृतौ येन यत्र वै
आह्लादश्चेन्दुलो वीरो देवो वै तालनो बली
इत्युक्त्वा शोभना वेश्या कृत्वा योगमयं वपुः प्रययौ तान्पुरस्कृत्य योगिवेषान्महाब लान्।। 3.3.30.
आह्लादो गजसंस्थो वै करालारूढ इन्दुलः कृष्णांशो बिन्दुलारूढो नर्तयामास तं हयम्
कामरूपमयं देशं शतयोजनगामिनः लक्षणं शोधयामासुर्न प्राप्तास्तत्र तं नृपम्
पुनर्मयूरनगरं शोभना तैः समन्विता
पुनरिन्नगढग्रामं शोभना च जनेजने