उवाच च विलप्याशु मत्पतिर्ल क्षणो बली अहं योषा भवान्योगी कथं कार्यं भविष्यति
इति श्रुत्वा तु स नृपो भुजमुत्थाप्य सत्वरम् राजद्वारमुपागम्य कृष्णांशस्स ननर्त ह
महीराजस्तु बलवान्प्रसन्नस्तस्यलीलया
इति श्रुत्वा भूपवचो विहस्योवाच तं प्रति दर्शयाशु स्वकीयं वै भवान्भूपशिरोमणिः
इति श्रुत्वा स नृपतिर्मोहितः कृष्णलीलया
ततस्ते योगिनस्सर्वे संप्राप्य च महावतीम् ।। 3.3.30.
स्वसेनां सज्जयामास चाह्लादश्च नृपाज्ञया
तालनस्सप्त लक्षाणि सैन्यान्याहूय चागतः देहलीं च समाजग्मुस्सर्वशस्त्रसमन्विताः
एतस्मिन्नंतरे मन्त्री चद्रभट्टो विशारदः
महीराजं समागम्य वचः प्राह शृणुष्व भोः
तत्रोदयश्च कृष्णांशः पूर्णब्रह्माणमागमत्
अग्निवंशविनाशाय चाद्य यास्यामि देहलीम्
पुनस्तवान्तिकं प्राप्य रहः क्रीडां करोम्यहम् इत्यहं दृष्टवान्भूप कृष्णांशं योगनिद्रया
इति तस्य वचः श्रुत्वा स भूपो विस्मयान्वितः तेभ्यश्च लक्षणं दत्त्वा वचनं प्राह तान्प्रति
पद्माकराय भूपाय गत्वा दत्त्वाशु लक्षणम्
इति श्रुत्वा तु ते सर्वे वह्निवंश्या महाबलाः 3.3.30.
भगदंतश्च तेषां तु सहस्राणां च नायकः
पद्मिनी मे स्वसा राजन् गुप्तविद्याविशारदा
दत्तस्तेन वरो रम्यो ह्यन्तर्धानमयः परः इति श्रुत्वा स नृपतिः परमानन्दमाप्तवान्
एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः
स तदा पृथिवीराजो गृहीत्वा बहुभूषणम्
लक्षणो नाम ते राजा कारागारे न वै मम
इत्युक्त्वा तं च कृष्णांशं दर्शयामास वै गृहम्
तदोदयो भूपवचः सत्यं मत्वा सुदुःखितः
कामपालस्तु तच्छ्रुत्वा कृष्णांशागमनं बली प्रांजलिः प्रणतो भूत्वा वचनं प्राह भीरुकः
सुता मे पद्मिनी नारी लक्षणेन समन्विता 3.3.30.
इति तद्वचनं श्रुत्वा कृष्णांशः स्वबलैस्सह
भ्रातृजस्तव भूपाल पद्मिन्या लक्षणोऽन्वितः
न जाने क्व गतो राजा मम प्राणसमो भुवि
हा रत्नभानुतनय विष्णुभक्त शुभंकर इत्युक्त्वा मूर्छितश्चासीत्कृष्णांशो वैष्णवप्रियः