लल्लसिंहश्च बलवान्कुंतिभोजांशसंभवः
तदा तु नेत्रसिंहश्च सप्तलक्षबलैर्वृतः
भयभीताश्च ते बौद्धास्त्यक्त्वा देशं समन्ततः
तदनुप्रययुस्ते वै हूहानदमुपस्थिताः
श्यामदेशोद्भवा लक्षं तथा लक्षं च जापकाः
कृष्णांशो लक्षसेनाढ्यो देवो लक्षसमन्वितः
मंडलीकश्चेन्दुलेन लक्षसैन्यसमन्वितः 3.3.29.
जननायक एवापि लक्षसैन्ययुतः स्थितः
तत्र युद्धमभूद्घोरं बौद्धानामार्यकैस्सह
सप्त लक्षं हता बौद्धा द्विलक्षं चार्यदेशजाः
कृत्वा दारुमयीं सेनां कलयंत्रप्रभावतः
एकलक्षं हयारूढा दारुपाश्च रणोन्मुखाः
सिंहारूढास्सहस्रं च सहस्रं हंसवाहनाः
उष्ट्राः सप्तसहस्राणि सशूराश्च रणोन्मुखाः
द्विलक्षाणि क्षयं जग्मुः कृष्णांशाद्यैः सुरक्षिताः
दृष्ट्वा तत्कौतुकं रम्यं जयन्तो युद्धकोविदः
भस्मीभूताश्च ते सर्वे तत्रैव विलयं गताः चक्रुर्जयरवं तत्र तुष्टुवुश्च पुनः पुनः ।। 3.3.29.
तदा तु चीनजा बौद्धाः कृत्वा विंशत्सहस्रकान्
योगसिंहो गजारूढो धनुर्बाणधरो वली
मृतास्ते पंचसाहस्रा योगसिंहशरार्दिताः कृत्वा लोहमयं सिंहं योगसिंहमपेषयत्
पातेन तस्य सिंहस्य स वीरो मरणं गतः स्वभल्लेन च तं सिंहं हत्वा तत्र जगर्ज वै
तदा तु बौद्धसिंहेन शार्दूलस्तत्र चोदितः
मातुलौ मृत्युवशगौ दृष्ट्वा स्वर्णवतीसुतः
शरमादाय वै शीघ्रं नाम्ना संमोहनं शुभम्
बद्ध्वा तान्बौद्धसिंहादीन्नृपान्दशसहस्रकम्
तदा ते हर्षितास्सर्वे प्रपेष्य नगरं ययुः लुण्ठयित्वा बलात्सर्वे नृपदुर्गमुपाययुः
बौद्धसिंहस्तदागत्य जयन्तेन विमोचितः 3.3.29.
दशकोटीः सुवर्णस्य चाह्लादाय तदा धनम्
आर्यदेशं न यास्यामः कदाचिद्राष्ट्रहेतवे त्रिलक्षैश्च युतास्ते वै नेत्रपालगृहं गताः
सुप्रिया योगसिंहाद्यास्तन्नो वद विचक्षण