गीतनृत्यादिरागांश्च कृत्वा सा कामविह्वला
तदा शुकस्तु भगवान्पद्यं स्तुति मयं शुभम्
सा तु श्रुत्वा शुभं वाक्यं प्रोवाच श्लक्ष्णया गिरा
इति श्रुत्वा तु वचनं तथा कृत्वा तया सह
तयोस्सकाशात्संजज्ञे मुनिर्नाम सुतोऽनयोः
तस्मै ददौ तदा पत्नीं स्वर्णदेवस्य वै सुताम्
तया रेमे प्रसन्नात्मा तयोर्जाता सुतोत्तमा तपश्चचार सा देवी रूपयौवन शालिनी ।। 3.3.29.
तदा प्रसन्नो भगवाञ्छंकरो लोकशंकरः
मुनिस्तु शंकरं प्राह देवदेव नमोऽस्तु ते
इति श्रुत्वा शिवः प्राह गुरुंडान्ते च भूतले त्रिंशदब्दप्रमाणेन तत्पश्चात्क्षयमेष्यति
इति श्रुत्वा तु स मुनिर्हिमतुंगनिवासकः
इति ते कथितं विप्र पुनः शृणु कथां शुभाम्
नेत्रपालस्य नगरं नानाधातुविचित्रितम्
सप्तलक्षयुतो राजा बौद्धसिंहो महाबलः
सप्ताहोरात्रमभवत्सेनायुद्धं भयानकम्
जघान शात्रवीं सेनां बौद्धसिंहेन पालिताम्
बौद्धा मायाविनस्सर्वे लोकमान्यप्रपूजकाः 3.3.29.
नेत्रपालाज्ञया सर्वे कृष्णांशाद्याः समागताः
इंदुलश्च करालाश्वे मंडलीको गजे स्थितः
तालनश्च समायातः सिंहिन्युपरि संस्थितः
लल्लसिंहश्च बलवान्कुंतिभोजांशसंभवः
तदा तु नेत्रसिंहश्च सप्तलक्षबलैर्वृतः
भयभीताश्च ते बौद्धास्त्यक्त्वा देशं समन्ततः
तदनुप्रययुस्ते वै हूहानदमुपस्थिताः
श्यामदेशोद्भवा लक्षं तथा लक्षं च जापकाः
कृष्णांशो लक्षसेनाढ्यो देवो लक्षसमन्वितः
मंडलीकश्चेन्दुलेन लक्षसैन्यसमन्वितः 3.3.29.
जननायक एवापि लक्षसैन्ययुतः स्थितः
तत्र युद्धमभूद्घोरं बौद्धानामार्यकैस्सह
सप्त लक्षं हता बौद्धा द्विलक्षं चार्यदेशजाः