आर्यावती च तत्पत्नी दश पुत्रानकल्मषान्
उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ
चतुर्वेदीति कथिता नामतुल्यगुणाः स्मृताः
काश्मीरे प्राप्तवान्सोऽपि जगदम्बां सरस्वतीम्
धूपैर्दीपैश्च नैवेद्यैः पुष्पांजलिसमन्वितः
भोऽसि त्वं जगदंबा जगतः किं मां बहिर्न यसि
देवि त्वं सुरहेतोर्धर्मद्रोहिणमाशु हंसि मातः
अंब त्वं बहुरूपा हुंकारा द्धूम्रलोचनं हसि 3.1.6.
दंभं मोहं घोरं गर्वं हत्वा सदा सुखं शेषे तदा प्रसन्ना सा देवी भो मुनेस्तस्य मानसे
वासं कृत्वा ददौ ज्ञानं मिश्रदेशे मुनिर्गतः
संख्यादशसहस्रं च नरवृन्दं द्विजन्मनाम्
तैः सार्द्धमार्यदेशे स सरस्वत्याः प्रसादतः
तेषामार्यसमूहानां देव्याश्च वरदानतः
तेषां पुत्राश्च पौत्राश्च तद्भूपः काश्यपो मुनिः
राज्यपुत्राख्यदेशे च शूद्राश्चाष्टसहस्रकाः
मागधं नाम तत्पुत्रमभिषिच्य ययौ मुनिः
सूतं पौराणिकं नत्वा विष्णुध्यानपरोऽभवत्
नित्यनैमित्तिकं कृत्वा पप्रच्छुरिदमादरात् कलौ राज्यं कृतं यैस्तु व्यासशिष्य वदस्व नः ।।3.1.6.
मागधो मागधे देशे प्राप्तवान्काश्यपात्मजः
पितृराज्यं स्मृतं तेन त्वार्यदेशः पृथक्कृतः
वायव्यां कैकयो देशो मद्रदेशस्तथोत्तरे
देशनाम्ना तस्य सुता मगधस्य महात्मनः
बलभद्रस्तदा तुष्टो यज्ञभावेन भावितः
शतवर्षं कृतं राज्यं काकवर्मा सुतोऽभवत्
अशीतिवर्षं राज्यं तत्क्षेत्रौजास्तत्सुतोऽभवत्
दशहीनं कृतं राज्यं ततोऽजातरिपुस्सुतः
दशहीनं कृतं राज्यमुदयाश्वस्ततोऽभवत् 3.1.6.
दशहीनं कृतं राज्यं तस्मान्नंदसुतोऽभवत्
नन्दाज्जातः प्रनन्दश्च दशवर्षं कृतं पदम्
तस्माज्जातस्समानंदो विंशद्वर्षं कृतं पदम्