महामदस्तु तज्ज्ञात्वा रुद्रध्यानपरायणः
व्याघ्राः सिंहा वराहाश्च वानरा दंशका नराः
तदा स्वर्णवती देवी कामाक्षीध्यानतत्परा
तया तार्क्ष्यास्समुत्पन्नाः शरभाश्च महाबलाः
हाहाभूते च तत्सैन्ये दिक्षु विद्राविते सति
सहुरस्तैर्नटैस्सार्द्धं चाह्लादेनैव चूर्णितः
एवं च मुनिशार्दूल चतुर्मास्स्वभवद्रणः इति ते कथितं विप्र चान्यत्किं श्रोतुमिच्छसि ।। 3.3.28.
कुत्र स्थाने कथं जाता तत्सर्वं कृपया वद
वसंतसमये प्राप्ते क्रीडंत्यत्र दिवौकसः
मंजुघोषा च स्वर्वेश्या शुकस्थाने समागता
गीतनृत्यादिरागांश्च कृत्वा सा कामविह्वला
तदा शुकस्तु भगवान्पद्यं स्तुति मयं शुभम्
सा तु श्रुत्वा शुभं वाक्यं प्रोवाच श्लक्ष्णया गिरा
इति श्रुत्वा तु वचनं तथा कृत्वा तया सह
तयोस्सकाशात्संजज्ञे मुनिर्नाम सुतोऽनयोः
तस्मै ददौ तदा पत्नीं स्वर्णदेवस्य वै सुताम्
तया रेमे प्रसन्नात्मा तयोर्जाता सुतोत्तमा तपश्चचार सा देवी रूपयौवन शालिनी ।। 3.3.29.
तदा प्रसन्नो भगवाञ्छंकरो लोकशंकरः
मुनिस्तु शंकरं प्राह देवदेव नमोऽस्तु ते
इति श्रुत्वा शिवः प्राह गुरुंडान्ते च भूतले त्रिंशदब्दप्रमाणेन तत्पश्चात्क्षयमेष्यति
इति श्रुत्वा तु स मुनिर्हिमतुंगनिवासकः
इति ते कथितं विप्र पुनः शृणु कथां शुभाम्
नेत्रपालस्य नगरं नानाधातुविचित्रितम्
सप्तलक्षयुतो राजा बौद्धसिंहो महाबलः
सप्ताहोरात्रमभवत्सेनायुद्धं भयानकम्
जघान शात्रवीं सेनां बौद्धसिंहेन पालिताम्
बौद्धा मायाविनस्सर्वे लोकमान्यप्रपूजकाः 3.3.29.
नेत्रपालाज्ञया सर्वे कृष्णांशाद्याः समागताः
इंदुलश्च करालाश्वे मंडलीको गजे स्थितः
तालनश्च समायातः सिंहिन्युपरि संस्थितः