न वदेद्यावनीं भाषां प्राणैः कंठगतैरपि
इत्येवं स्मृतिवाक्यानि मुनिना पठितानि वै
इति श्रुत्वा तु सा वेश्या म्लेच्छायाश्चांशसंभवा
वेतसैस्ताडयित्वा तं पुनः कृत्वा शुकं स्वयम्
तदा स्वर्णवती देवी कृत्वा नारीमयं वपुः
पुनः श्येनीवपुः कृत्वा तद्देशाद्यातुमुद्यता
मकरंदस्तु तां दृष्ट्वा कृष्णांशेन समन्विताम् चरणावुपसंगृह्य स्वगेहे तामवासयत्
शोभनापि च संबुध्य पञ्जरान्तमुपस्थिता 3.3.28.
किं करोमि क्व गच्छामि विना तं रमणं परम्
तत्र स्थितं च पैशाचं मायामदविशारदम्
महामदस्तु संतुष्टो गत्वा वै शिवमंदिरम्
तदा प्रसन्नो भगवान्वचनं प्राह सेवकम् मया सह समागच्छ मयूरनगरं प्रति
इत्युक्तस्तेन पैशाचो नटैः पंचसहस्रकैः
इन्दुलश्च तथाह्लादो बोधितो विष्णुमायया मयूरनगरं प्राप्य मकरंदमुपाययौ
तदा तु शोभना वेश्या सहुरेण बलैस्सह
सर्वतश्चोत्थितो वातो महामेघसमन्वितः ६८ दृष्ट्वा तां भैरवीं मायां तमोभूतां समन्ततः
शनिभल्लेन तां मायां भस्म कृत्वा महाबलः 3.3.28.
तदा तु शोभना नारी काममायां चकार ह
मोहिताः क्षत्रियाः सर्वे मुमुहुर्लास्यदर्शनात्
तदा स्वर्णवती देवी कामाक्षी ध्यानतत्परा मयूरध्वजमागम्य निगडैस्तान्बबंध ह
महामदस्तु तज्ज्ञात्वा रुद्रध्यानपरायणः
व्याघ्राः सिंहा वराहाश्च वानरा दंशका नराः
तदा स्वर्णवती देवी कामाक्षीध्यानतत्परा
तया तार्क्ष्यास्समुत्पन्नाः शरभाश्च महाबलाः
हाहाभूते च तत्सैन्ये दिक्षु विद्राविते सति
सहुरस्तैर्नटैस्सार्द्धं चाह्लादेनैव चूर्णितः
एवं च मुनिशार्दूल चतुर्मास्स्वभवद्रणः इति ते कथितं विप्र चान्यत्किं श्रोतुमिच्छसि ।। 3.3.28.
कुत्र स्थाने कथं जाता तत्सर्वं कृपया वद
वसंतसमये प्राप्ते क्रीडंत्यत्र दिवौकसः
मंजुघोषा च स्वर्वेश्या शुकस्थाने समागता