तस्मै प्रदर्शयामास निजकार्यपरायणा
दयालुस्स च कृष्णांशस्तामाह करुणं वचः
साह वीर तवास्ये तु संस्थिता गुटिका शुभा
इत्युक्तस्तु तया वीरो ददौ तस्यै च तद्वसु पंजरस्थमुपादाय कृष्णांशं कामविह्वला
बाह्लीकदेशमागम्य सारट्टनगरं शुभम्
निशीथे समनुप्राप्ते कृत्वा तं नररूपिणम्
दृष्ट्वा तां स तथाभूतां कृष्णांशो जगदंबिकाम्
तदा सा स्वेडिनी भूत्वा त्यक्त्वा कृष्णांशमुत्तमम् 3.3.28.
तदा स्वर्णवती देवी बोधिता विष्णुमायया ददर्श शुकभूतं च कृष्णांशं योगतत्परम्
एतस्मिन्नंतरे वेश्या पुनः कृत्वा शुभं वपुः
अये प्राणप्रिय स्वामिन्भज मां कामविह्वलाम्
इत्युक्तस्स तु तामाह वचनं शृणु शोभने
विवाहितां शुभां नारीं यो भजेत ऋतौ न हि अतः परस्त्रिया भोगो ज्ञेयो वै निरयप्रदः
इति श्रुत्वा तु सा प्राह विश्वामित्रेण धीमता न कोऽपि नरकं प्राप्तस्तस्मान्मां भज कामिनीम्
पुनश्चाह स कृष्णांशः कृत्तं पापं तपोबलात्
अर्द्धांगं पुरुषस्य स्त्री मैथुने च विशेषतः
ऋचि शब्दश्च पूर्वास्याज्जात ऋग्जस्सनातनः
तद्धितान्तश्च यश्शब्दः पश्चिमास्याच्च सामजः केवलो वर्णमात्रश्च स शब्दोऽथर्वजः स्मृतः ।। 3.3.28.
पञ्चमास्याच्च ये जाताः शब्दाः संसारकारिणः
हित्वा तान्यो हि शुद्धात्मा चतुर्वेदपरायणः
न वदेद्यावनीं भाषां प्राणैः कंठगतैरपि
इत्येवं स्मृतिवाक्यानि मुनिना पठितानि वै
इति श्रुत्वा तु सा वेश्या म्लेच्छायाश्चांशसंभवा
वेतसैस्ताडयित्वा तं पुनः कृत्वा शुकं स्वयम्
तदा स्वर्णवती देवी कृत्वा नारीमयं वपुः
पुनः श्येनीवपुः कृत्वा तद्देशाद्यातुमुद्यता
मकरंदस्तु तां दृष्ट्वा कृष्णांशेन समन्विताम् चरणावुपसंगृह्य स्वगेहे तामवासयत्
शोभनापि च संबुध्य पञ्जरान्तमुपस्थिता 3.3.28.
किं करोमि क्व गच्छामि विना तं रमणं परम्
तत्र स्थितं च पैशाचं मायामदविशारदम्