पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्
तत्र गत्वा स शुद्धात्मा पुष्पवत्या समन्वितः
एतस्मिन्नंतरे प्राप्ता म्लेच्छजातिसमुद्भवा
सा ददर्श परं रम्यं कृष्णाशं पुरुषोत्तमम्
मूर्च्छितां तां समालोक्य कृष्णांशः सर्वमोहनः
अष्टादश पुराणानि केन प्रोक्तानि किं फलम्
इति श्रुत्वा वचो रम्यं विद्वांसः शास्त्रकोविदाः
पराशरेण रचितं पुराणं विष्णुदैवतम् 3.3.28.
शुकप्रोक्तं भागवतं ब्राह्मं वै ब्रह्मणा कृतम्
मत्स्यः कूर्मो नृसिंहश्च वामनः शिव एव च
राजसाः षट् स्मृता वीर कर्मकांडमया भुवि
आग्नेयमंगिराश्चैव जनयामास चोत्तमम् महादेवेन लोकार्थे भविष्यं रचितं शुभम्
तामसाः षट् स्मृताः प्राज्ञैः शक्तिधर्मपरायणाः
घोरे भुवि कलौ प्राप्ते विक्रमो नाम भूपतिः
तदा ते मुनयस्सर्वे नैमिषारण्यवासिनः प्रोक्तान्युपपुराणानि सूतेनाष्टादशैव च
इति श्रुत्वा तु वचनं कृष्णांशो धर्मतत्परः
ददौ दानानि विप्रेभ्यो गोसुवर्णमयानि च
तदा तु भिक्षुकी भूत्वा शोभा नाम मदातुरा 3.3.28.
ध्यात्वा महामदं वीरं पैशाचं रुद्रकिंकरम्
दृष्ट्वा स्वर्णवती देवी तां मायां शोभयोद्भवाम् ।। छित्त्वा चाह्लाद्य वामांगीं स्वगेहं गंतुमुद्यता
सा वेश्या तु शुचाविष्टा तस्याः शृंगारमुत्तमम् संहृत्य मायया धूर्ता देशं वाह्लीकमाययौ
कल्पक्षेत्रमुपागम्य नेत्रसिंहसमुद्भवा
कृष्णांशं वचनं प्राह गच्छगच्छ महाबल
गुटिकेयं मया वीर रचिता तां मुखेन च
इति श्रुत्वा तथा कृत्वा कृष्णांशस्सर्वमोहनः
सा तु वेश्या च तं वीरं दृष्ट्वा कन्दर्पकारिणम्
तदा सा निष्फलीभूय रुरोद करुणं बहु
गृहीत्वा सर्वशृंगारं वचनं प्राह निर्भयः 3.3.28.
साह मे सहरो नाम भ्राता प्राणसमप्रियः
अतो रौमि महाभाग संप्राप्ता शरणं त्वयि