श्रुत्वा परिमलो राजा प्रेमविह्वलगद्गदः
तदा तु देवकी देवी नृपतिं प्रेमतत्परम्
भवता संपरित्यक्ता विचरामोऽन्यभूपतिम्
इति श्रुत्वा च नृपतिः परमा नंदनिर्भरः स्वकीयं लक्षसैन्यं च तत्पतिश्चोदयः कृतः
ततः पंचदिनान्ते तु महीराजस्समागतः तयोश्चासीन्महयुद्धं मासमात्रं भयानकम्
प्रभाते विमले जाते कृष्णांशो लक्षसैन्यपः चिच्छेद च शिरस्तेषां चामुंडानां पृथक्पृथक्
छिन्ने शिरसि ते सर्वे लक्षवीरा बभूविरे
विस्मितश्चैव कृष्णांशो भयभीतस्तदा मुने
कृष्णांश उवाच त्वया ततमिदं विश्वं शब्दमात्रनिरंतरम्
रक्तबीजविनाशाय चामुंडारूपधारिणि 3.3.27.
इति श्रुत्वा स्तवं देवी वरदा सर्वकारिणी
भस्मीभूते लक्षरिपौ चामुण्डो भूमिमागतः भूमिराजस्तु तच्छ्रुत्वा भयभीतः समागतः उवाच वचनं राजा क्षमस्व मम दुष्कृतम्
महीपतेश्च वचनान्महद्भयमुपागतम् भवांश्च मम संबन्धी वयं वै तव किंकराः
इति श्रुत्वा परिमलो राजानमिदमब्रवीत् शरण्यं शरणं याहि विष्णुभक्तं दयापरम्
इति श्रुत्वा भूमिराजो द्विजरूपधरो बली
तदा तु लक्षणो वीरः कृत्वा स्नेहं नृपोपरि
फाल्गुने मासि संप्राप्ते सर्वे स्वंस्वं गृहं ययुः
बलखानेर्गयाश्राद्धमचीकरदविप्लुतः ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान्
कार्तिक्यामिंदुवारे च कृत्तिकाव्यतिपातभे
कृष्णांशोऽयुतसेनाढ्यः स्वर्णवत्या समन्वितः
पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्
तत्र गत्वा स शुद्धात्मा पुष्पवत्या समन्वितः
एतस्मिन्नंतरे प्राप्ता म्लेच्छजातिसमुद्भवा
सा ददर्श परं रम्यं कृष्णाशं पुरुषोत्तमम्
मूर्च्छितां तां समालोक्य कृष्णांशः सर्वमोहनः
अष्टादश पुराणानि केन प्रोक्तानि किं फलम्
इति श्रुत्वा वचो रम्यं विद्वांसः शास्त्रकोविदाः
पराशरेण रचितं पुराणं विष्णुदैवतम् 3.3.28.
शुकप्रोक्तं भागवतं ब्राह्मं वै ब्रह्मणा कृतम्
मत्स्यः कूर्मो नृसिंहश्च वामनः शिव एव च