इति श्रुत्वा तु वचनं कृष्णांशः प्राह नम्रधीः अतो वै त्वां समुत्सृज्य भूमिराजवशं गतः
भवान्वै सर्वधर्मज्ञस्तत्क्षमस्वापराधकम्
इति श्रुत्वा तु वचनं जयचंद्रो महीपतिः शीघ्रं व्रज त्वं सकुलो नो चेन्नो गंतुमर्हसि
इति श्रुत्वा विहस्याह कृष्णांशस्सर्वमोहनः तद्देयं देहि मे राजन्गृहाण भुक्तिमूल्यकम्
इत्युक्तस्स तु भूपालः कृष्णांशेन विलज्जितः
तदा वै सकुलो वीरश्चाह्लादो लक्षणान्वितः
कुठारनगरं प्राप्य नृपदुर्गं रुरोध ह
सैन्यायुत युतं भूपं वामनं लक्षणो बली
यमुनाजलमुत्तीर्य कल्पक्षेत्रमवाप्तवान् पुरस्कृत्य ययौ वीरो लक्षणो बलवत्तरः
नदीं वेत्रवतीं रम्यां समागम्य बलैस्सह 3.3.27.
एतस्मिन्नंतरे वीरश्चामुंडो लक्षसैन्यपः
तयोश्चासीन्महद्युद्धं शतघ्रीरणसंस्थयोः
रक्तबीजः समागम्य गजस्थस्त्वरितो बली
केचिच्छूरा हता युद्धे केचित्तत्र पराजिताः
प्रभग्नं स्वबलं दृष्ट्वा तालनः परिघायुधः ।। जघान तेन स गजं चामुंडो भूमिमागतः
खड्गयुद्धपरो वीरस्तालनं पीरघायुधम्
लक्षणस्त्वरितो गत्वा स्वभल्लेन च तं रिपुम्
सहस्रं रक्तबीजाश्च खड्ग शक्त्यृष्टिपाणयः
आह्लादाद्याश्च ते शूरा रक्तबीजभयातुराः
ब्रह्मानंदस्तु तान्दृष्ट्वा गत्वा स्वपितरं प्रति 3.3.27.
श्रुत्वा परिमलो राजा प्रेमविह्वलगद्गदः
तदा तु देवकी देवी नृपतिं प्रेमतत्परम्
भवता संपरित्यक्ता विचरामोऽन्यभूपतिम्
इति श्रुत्वा च नृपतिः परमा नंदनिर्भरः स्वकीयं लक्षसैन्यं च तत्पतिश्चोदयः कृतः
ततः पंचदिनान्ते तु महीराजस्समागतः तयोश्चासीन्महयुद्धं मासमात्रं भयानकम्
प्रभाते विमले जाते कृष्णांशो लक्षसैन्यपः चिच्छेद च शिरस्तेषां चामुंडानां पृथक्पृथक्
छिन्ने शिरसि ते सर्वे लक्षवीरा बभूविरे
विस्मितश्चैव कृष्णांशो भयभीतस्तदा मुने
कृष्णांश उवाच त्वया ततमिदं विश्वं शब्दमात्रनिरंतरम्
रक्तबीजविनाशाय चामुंडारूपधारिणि 3.3.27.