सेनापतेश्च मुकुटं गजस्थस्य गृहीतवान्
भवान्वृत्तिकरो मह्यं क्षत्रियो ब्राह्मणस्य वै
इति श्रुत्वा स विनयं दत्त्वा तस्मै शुभं वसु
दृष्ट्वा तत्र वटच्छायां श्रमेणातीव कर्षितः
तदा तु वामनो ज्ञात्वा स्वदूतैस्तत्र कारणम्
हृते तस्मिंश्च दिव्याश्वे प्रबुद्धो जननायकः
अश्वांघ्रिचिह्नमालोक्य वामनं प्राप्य निर्भयः
क्षत्रियाणां हि संहास्यो भयदो भुवि सर्वदा
नो चेत्त्वां वै सनगरं कृष्णांशः क्षपयिष्यति
भयभीतो विनिश्चित्य प्रददौ हरिनागरम् ।। 3.3.27.
प्रतोदं स्वर्णरचितं नानारत्नसमन्वितम्
तदा परिमलापुत्रः कुंठितः प्राह भूपतिम्
इत्युक्त्वा प्रययौ वीरः कान्यकुब्जं महोत्तमम् कस्त्वं प्राप्तो हयारूढो निर्भयः क्षत्रियोत्तमः
स होवाच महाराज प्रेषितश्चंद्रवंशिना
महीराजश्च बलवान्सकुलं चंद्रवंशिनम्
अतस्त्वं स्वबलैस्सार्द्धं सहाह्लादादिभिर्युतः
इत्युक्तो लक्षणस्तेन जयचंद्रं प्रणम्य सः
जयचंद्रस्तु तच्छ्रुत्वा चाहूय जननायकम्
राजा परिमलः क्रूरस्त्यक्त्वा मां निजभूपतिम्
प्रियं संबधिनं मत्वा संत्यक्तास्तेन रक्षकाः 3.3.27.
इति श्रुत्वा तु वचनं कृष्णांशः प्राह नम्रधीः अतो वै त्वां समुत्सृज्य भूमिराजवशं गतः
भवान्वै सर्वधर्मज्ञस्तत्क्षमस्वापराधकम्
इति श्रुत्वा तु वचनं जयचंद्रो महीपतिः शीघ्रं व्रज त्वं सकुलो नो चेन्नो गंतुमर्हसि
इति श्रुत्वा विहस्याह कृष्णांशस्सर्वमोहनः तद्देयं देहि मे राजन्गृहाण भुक्तिमूल्यकम्
इत्युक्तस्स तु भूपालः कृष्णांशेन विलज्जितः
तदा वै सकुलो वीरश्चाह्लादो लक्षणान्वितः
कुठारनगरं प्राप्य नृपदुर्गं रुरोध ह
सैन्यायुत युतं भूपं वामनं लक्षणो बली
यमुनाजलमुत्तीर्य कल्पक्षेत्रमवाप्तवान् पुरस्कृत्य ययौ वीरो लक्षणो बलवत्तरः
नदीं वेत्रवतीं रम्यां समागम्य बलैस्सह 3.3.27.