भाद्रकृष्णदशम्यां च मलना शोककातरा
अये कच्छपदेशीय गोतमान्वयसंभव
पुत्रमाह्लादमाहूय सानुजं मत्प्रियंकरम्
मलनां दुःखितां प्राह न त्वायास्यति स प्रभुः
इति श्रुत्वा तु वचनं रुरोद मलना सती
हा रामांश महाबाहो वत्स कृष्णांश सुन्दर
तदा परिमलापुत्रो दृष्ट्वा राज्ञीं तथा गताम्
रोमहर्षण नो ब्रूहि सोऽयं कस्तेन किं कृतम्
पिता परिमलस्यैवामात्योऽनंगमहीपतेः
तस्य कन्या समाजाता नाम्ना परिमला मुने 3.3.27.
तद्विवाहार्थमुद्योगः कृतः पित्रा स्वयंवरः तामुद्वाह्म विधानेन स्वगेहाय ययौ मुदा
तयोस्समागमो जातः पुत्रोऽयं जननायकः
जित्वा भूपान्बलाद्वीरः सिंधुतीरलनिवासिनः
एकदा तु महीराजः स्वसैन्यपरिवारितः
तयोश्चासीन्महद्युद्धं जननायकभूपयोः
त्यक्त्वा राष्ट्रं च सकुलः संप्राप्तश्च महावतीम्
निवासं कृतवांस्तत्र स्वनाम्ना प्रथितं भुवि
तदासौ च महीराजो महीपत्यनुमोदितः आदेशं कृतवान्राजा तस्य बंधनहेतवे
स च नेत्रवतीकूले संप्राप्ते लक्ष सैन्यपः
स तदा खड्गमादाय बाहुशाली यतेंद्रियः 3.3.27.
सेनापतेश्च मुकुटं गजस्थस्य गृहीतवान्
भवान्वृत्तिकरो मह्यं क्षत्रियो ब्राह्मणस्य वै
इति श्रुत्वा स विनयं दत्त्वा तस्मै शुभं वसु
दृष्ट्वा तत्र वटच्छायां श्रमेणातीव कर्षितः
तदा तु वामनो ज्ञात्वा स्वदूतैस्तत्र कारणम्
हृते तस्मिंश्च दिव्याश्वे प्रबुद्धो जननायकः
अश्वांघ्रिचिह्नमालोक्य वामनं प्राप्य निर्भयः
क्षत्रियाणां हि संहास्यो भयदो भुवि सर्वदा
नो चेत्त्वां वै सनगरं कृष्णांशः क्षपयिष्यति
भयभीतो विनिश्चित्य प्रददौ हरिनागरम् ।। 3.3.27.