मदनं गोपजातं च हत्वा सरदनो बली उत्तरांशश्च स ज्ञेयो मदनश्चोत्तरे लयः
रूपणश्च समागत्य मूर्छयित्वा च मर्दनम्
ब्रह्मानंदश्च बलवान्स बद्ध्वा तारकं रुषा
नृहरं रणजित्प्राप्य स्वभल्लेन तदा रुषा 3.3.26.
स वै दुश्शासनांशश्च मृतस्तस्मिन्समागतः
निहते नृहरे बंधौ मर्दनः क्रोधतत्परः
छित्त्वा तान्रणजिच्छूरस्स वै परिमलोद्भवः
मृतेऽस्मिन्मर्दने वीरे तदा सरदनो बली
महत्कष्टमुपागम्य रणजिन्मलनोद्भवः
त्रिबंधौ निहते युद्धे तारकः क्रोधमूर्छितः
छित्त्वा बाणं च रणजित्तथैव च रिपोर्द्धनुः
अमर्षवशमापन्नो यथा दंडैर्भुजंगमः
संधाय तर्जयित्वा च शत्रुकंठमताडयत्
हते तस्मिन्महावीर्ये ब्रह्मानंदश्च दुःखितः संध्याकाले तु संप्राप्ते भाद्रकृष्णाष्टमीदिने ।। 3.3.26.
कपाटं सुदृढं कृत्वा सैन्यैः षष्टिसहस्रकैः
महीराजस्तु बलवान्पुत्रशोकेन दुःखितः
शिरीषाख्यपुरं रम्यं यथा शून्यं मया कृतम् क्षयं यास्यंति मद्बाणैः सर्वे ते चंद्रवंशिनः
इत्युक्त्वा धुंधुकारं वै चाह्वयामास भूपतिः
इति श्रुत्वा धुंधुकारो गत्वा शीघ्रं च देहलीम्
तदाष्टलक्षसहितो महीराजो महाबलः
भाद्रकृष्णदशम्यां च मलना शोककातरा
अये कच्छपदेशीय गोतमान्वयसंभव
पुत्रमाह्लादमाहूय सानुजं मत्प्रियंकरम्
मलनां दुःखितां प्राह न त्वायास्यति स प्रभुः
इति श्रुत्वा तु वचनं रुरोद मलना सती
हा रामांश महाबाहो वत्स कृष्णांश सुन्दर
तदा परिमलापुत्रो दृष्ट्वा राज्ञीं तथा गताम्
रोमहर्षण नो ब्रूहि सोऽयं कस्तेन किं कृतम्
पिता परिमलस्यैवामात्योऽनंगमहीपतेः
तस्य कन्या समाजाता नाम्ना परिमला मुने 3.3.27.