ध्यानं चक्रुर्मुदा युक्ता द्विशतं परिवत्सरान्
संध्यातर्पणदेवार्चाः कृत्वा ध्यात्वा जनार्द्दनम्
व्यासशिष्य महाभाग चिरं जीव महामते
आवन्ते शंखनामाऽसौ सांप्रतं वर्तते नृपः
म्लेच्छदेशे शकपतिरथ राज्यं करोति वै
द्विसहस्रे कलौ प्राप्ते म्लेच्छवंशविवर्द्धिता
ब्रह्मावर्तमृते तत्र सरस्वत्यास्तटं शुभम् 3.1.5.
देवार्चनं वेदभाषा नष्टा प्राप्ते कलौ युगे
व्रजभाषा महाराष्ट्री यावनी च गुरुंडिका
पानीयं च स्मृतं पानी बुभुक्षा भूख उच्यते
इष्टिशुद्धरवः प्रोक्त इस्तिनी मसपावनी आहुतिर्वै आजु इति ददाति च दधाति च
पितृपैतरभ्राता च बादरः पतिरेव च
जानुस्थाने जैनुशब्दः सप्तसिंधुस्तथैव च
रविवारे च संडे च फाल्गुने चैव फर्वरी
या पवित्रा सप्तपुरी तासु हिंसा प्रवर्तते
म्लेच्छदेशे बुद्धिमतो नरा वै म्लेच्छधर्मिणः
म्लेच्छराज्यं भारते च तद्द्वीपेषु स्मृतं तथा 3.1.5.
तच्छ्रुत्वा मुनयः सर्वे रोदनं चक्रिरे बहु
कलियुगभूपाख्यानवर्णनम् सूतः प्राह शृणुष्वेदं सरस्वत्याः प्रभावतः
म्लेच्छाः प्राप्ता न तत्स्थाने काश्यपो नाम वै द्विजः
आर्यावती च तत्पत्नी दश पुत्रानकल्मषान्
उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ
चतुर्वेदीति कथिता नामतुल्यगुणाः स्मृताः
काश्मीरे प्राप्तवान्सोऽपि जगदम्बां सरस्वतीम्
धूपैर्दीपैश्च नैवेद्यैः पुष्पांजलिसमन्वितः
भोऽसि त्वं जगदंबा जगतः किं मां बहिर्न यसि
देवि त्वं सुरहेतोर्धर्मद्रोहिणमाशु हंसि मातः
अंब त्वं बहुरूपा हुंकारा द्धूम्रलोचनं हसि 3.1.6.
दंभं मोहं घोरं गर्वं हत्वा सदा सुखं शेषे तदा प्रसन्ना सा देवी भो मुनेस्तस्य मानसे
वासं कृत्वा ददौ ज्ञानं मिश्रदेशे मुनिर्गतः