विललाप भृशं तत्र हा बन्धो धर्मजांशक
दर्शनं देहि मे क्षिप्रं नो चेत्प्राणांस्त्यजाम्यहम्
इत्युक्तः स तु तद्भ्राता बलखानिः पिशाचगः कथित्वा सर्ववृत्तान्तं यथाजातं स्ववैशसम्
दिव्यं विमानमारुह्य गतो नाकं मनोरमम् 3.3.26.
तदा दुःखी स कृष्णांशः कृत्वा भ्रातुस्तिलांजलिम्
वेणुशब्देन कृष्णांशो ननर्त जनमोहनः
मृदंगध्वनिना देवो लक्षणः कांस्यवाद्यकः
तदा तु मलना राज्ञी दृष्ट्वा तद्वामनोत्सवम्
कृष्णांशो बन्धुसहितस्त्यक्त्वा मां मन्दभागिनीम्
इत्युक्तां मलनां दृष्ट्वा कृष्णांशः स्नेह कातरः
योगिनश्च वयं राज्ञि सर्वयुद्धविशारदाः
ये यवव्रीहयश्चैव तव सद्मनि संस्थिताः वयं तु योगसैन्येन तव रक्षां च कुर्महे
इति श्रुत्वा वचस्तस्य तत्सुता च पतिव्रता
पुण्डरीकनिभे नेत्रे श्यामांगं तस्य सुन्दरम् दुर्जयश्च महीराजः कृष्णांशेन विनिर्जितः ।। 3.3.26.
इति तद्वचनं श्रुत्वा मलना प्रेमविह्वला
जगुस्ता योषितस्सर्वाः कृष्णांशचरितं शुभम् सज्जीकृत्य स्थितस्तत्र तालनाद्यैः सुरक्षितः
कीर्तिसागरमागम्य ते वीरा बल दर्पिताः
महीपतिस्तु कुलहा ज्ञात्वा कृष्णांशमागतम्
योगिभिस्तैर्महाराज लुंठिताः सर्वयोषितः
महीराजस्य ते सैन्या योगिवेषास्समागताः
इति श्रुत्वा वचो घोरं ब्रह्मानन्दो महाबलः
महीराजस्तु कलही सैन्यायुतमहात्मजः
तयोश्चासीन्महयुद्धं सेनयोरुभयोर्भुवि
लक्षणश्चाभयं शूरं देवसिंहो महीपतिम् 3.3.26.
लक्षणः कामसेनं च देवो रणजितं तदा
एतस्मिन्नंतरे ब्रह्मा बद्ध्वा वै तालनं बली
लक्षणं छिन्नधन्वानं पुनर्बद्ध्वा महाबलः
हाहाभूते योगिसैन्ये प्रद्रुते सर्वतो दिशम्
ब्रह्मानन्दोऽयमायातो मम सैन्य क्षयंकरः
इत्युक्त्वा तास्समादाय ब्रह्मानन्दमुपाययौ