इति श्रुत्वा वचो देव्यास्स वीरो विस्मयान्वितः
सा तु श्रुत्वा वचो घोरं स्वर्णवत्या समन्विता
कृष्णांशस्तु तदा दुःखी देवसिंहमुवाच ह
तच्छ्रुत्वा तेन सहितो लक्षणेन समन्वितः
तालनो भीमसेनांशः सेनापतिरुदारधीः 3.3.26.
कल्पक्ष्रेत्रमुपागम्य योगिनस्ते तदाभवन्
कृष्णांशस्तालनो देवो लक्षणो बलवत्तरः
सप्ताहं च तयोर्युद्धं जातं मृत्युविवर्द्धनम्
तस्मिन्दिने महाभाग महद्युद्धमवर्तत
दृष्ट्वा पराजितं सैन्यं राजा परिमलो बली
यादवश्च गजारूढस्तदा चंद्रावलीपतिः
हरिनागरमारुह्य ब्रह्मानंदो महाबल.
मर्दनं राजपुत्रं च रणजिद्ग जसंस्थितः
रूपणो वै सरदनं हयारूढो जगाम ह नृहरं राजपुत्रं च शंखांशश्च जगाम ह
तेषु संग्राममेतेषु चामुण्डोऽयुतसैन्यपः 3.3.26.
ददर्श नगरीं रम्यां चतुर्वर्णसमन्विताम्
महीपतिस्तु वै धूर्तो दुर्गद्वारि समागतः
मलना भ्रातरं दृष्ट्वा वचनं प्राह दुःखिता
न प्राप्तं जल संस्थाने सुपुण्ये कीर्तिसागरे
विनाह्लादं च कृष्णांशं महद्दुःखमुपागतम् कान्यकुब्जात्समायातः कृष्णांशेन प्रयोजितः
देवीदत्तश्च नाम्नाऽयं स ते कार्यं करिष्यति
कामाग्निपीडितं विप्रं चामुंडं च ददर्श ह
धूर्तोऽयं ब्राह्मणो मातर्निश्चयं मां हरिष्यति
इति श्रुत्वा वचस्तस्या लज्जितस्स महीपतिः
एतस्मिन्नंतरे ते वै ब्रह्माद्यास्तैः पराजिताः 3.3.26.
कपाटं सुदृढं कृत्वा महाचिंतामुपाययुः । महीराजस्तु बलवान्महीपत्यनुमोदितः
प्रमदावनमागत्य षष्टिलक्षबलान्वितः तालनाद्याश्च चत्वारः शिरीषाख्यपुरं ययुः प्रययुस्ते सुखभ्रष्टा ददृशुर्हिमदं मुनिम्
प्रणम्योचुः शुचाविष्टा बलखा निर्मुने बली
श्रुत्वाह हिमदो योगी महीराजेन नाशितः
इति श्रुत्वा वचो घोरं कृष्णांशः शोकतत्परः