इति पद्माकरः श्रुत्वा सर्वमायाविशारदः स्वगेहे स्थापयामास कारागारे शिलामये
देव्याश्च वरदानेन देवसिंहस्तदा निशि
इंदुलाग्रे च तत्सर्वे गदित्वा तेन संयुतः
पद्माकरस्तु तच्छुत्वा कृत्वा मायां च शाम्बरीम् 3.3.25.
इंदुलश्च तदा चापे संधाय शरमुत्तमम्
तदा ते बोधिताः सर्वे कामास्त्रेण महाबलाः
बहिर्भूता: समाजग्मुः शत्रुसैन्यान्यनाशयन्
शारदानंदनो भूपस्तत्रागत्य विनम्य तान्
नानाविधानि भोज्यानि प्रशस्याभरणानि च
कुमारिकां स्वकीयां च बहुरोदनतत्पराम् आगतो लक्षणो गेहं माघकृष्णाष्टमीदिने
जयचंद्रस्तु तं दृष्ट्वा लक्षणं प्रेमविह्वलः
दत्त्वा ततोऽन्यदानानि गोवस्त्राभरणानि च
सूत उवाच महीराजो वरं प्राप्तः शंकरात्पार्थिवार्चनात्
सप्तलक्षैश्च सहितः शिरीषाख्यपुरं ययौ 3.3.25.
सुखखानिस्तदा क्रुद्धो लक्षसैन्यसमन्वितः
पावकास्त्रेण बलवान्हत्वा दशसहस्रकम्
अद्य त्वां च हनिष्यामि त्वं वा हन्ता रणे मम
इति श्रुत्वा महीराजो रौद्रास्त्रं चाप आदधे
सुखखानिस्तदाग्नेयं संदधौ तस्य शांतये
तदस्त्रं शिवतूणीरे गतं कार्यं विधाय तत्
भ्रातुर्वैरमुपादाय जघान च रिपोर्बलम्
भूमिराजस्तु तं दृष्ट्वा तद्बलाधिक्यमोहितः
क्रोशमात्रान्तरे गर्ता द्वादशैव मया कृताः
शूराञ्जित्वा समुल्लंघ्य गर्तान्द्वादशसम्मितान् 3.3.25.
इति श्रुत्वा प्रियं वाक्यं तद्राज्ञा सत्यभाषितम्
दृष्ट्वा गर्तान्महावीरो हत्वा शूराञ्छतञ्छतम्
चामुंडस्तु तदागत्य शरायुतसमन्वितः
बलखानिश्च महतीं सेनां तस्य जघान ह
त्रयोदशं गुप्तगर्तं तृणैराच्छादितं मृदा
पतितः सकपोतश्च स वीरो दैवमोहितः