नष्टेषु सागरेष्वेवमसमञ्जस आत्मजः
शतहीनं कृतं राज्यं दिलीपस्तत्सुतोऽभवत्
शतहीनं कृतं राज्यं श्रुतसेनस्ततोऽभवत्
शतहीनं कृतं राज्यमम्बरीषस्ततोऽभवत्
सत्यपादः समाप्तोऽयं तृतीयो भारतेंतरे
चतुर्थे चरणे तस्य चाष्टादश सहस्रकम्
एकोनत्रिंशद्वर्षाणि राज्यं तत्त्रिंशतानि च
शतहीनं कृतं राज्यमयुताश्वस्ततोऽभवत्
शतहीनं कृतं राज्यं सर्वकामो नृपस्ततः
शतहीनं कृतं राज्यं सुदासस्तनयोऽभवत् 3.1.1.
शतहीनं कृतं राज्यं हरिवर्मा ततोऽभवत्
गुरुशापात्तु सौदासो राज्याङ्गं गुरवेऽर्पयत्
हरिवर्मा शमकजो वैश्यवत्साधुपूजकः
हरिवर्माऽकरोद्राज्यं तस्माद्दशरथोऽभवत्
पितुस्तुल्यं कृतं राज्यं भृपो विश्वासहस्ततः
तदधर्मप्रतापेन ह्यनावृष्टिस्तदाऽभवत्
यज्ञं कृत्वा वशिष्ठस्तु राज्ञीवचनतत्परः
इन्द्रसाहाय्यमगमद्राज्यं त्रिंशत्सहस्रकम्
खट्टांगाद्दीर्घबाहुश्च राज्यं विंशत्स हस्रकम्
वैष्णवा दाशरथ्यं तास्त्रयो विख्यातसद्बलाः 3.1.1.
सुदर्शनो महाप्राज्ञः काशीराजसुतां नृपः वर्षपञ्चसहस्राणि राज्यं चक्रे स भूपतिः
स्वप्नमध्ये वचः प्रोक्तं महाकाल्या नृपाय वै
हिमालयं गिरिं प्राप्य वासं कुरु महामते
रत्नाकरः पश्चिमोऽब्धिस्तस्य द्वीपाः क्षयं गताः
वाडवोऽब्धिर्दक्षिणे च तस्य द्वीपाः क्षयं गताः
ये द्वीपास्तु सुविख्यातास्तेऽपि सर्वे लयं गताः
सजीवः प्रलयं यायात्तस्मात्त्वं जीवितो भव
प्राप्तवान्मुख्यभूपैश्च मुख्यवैश्यैर्द्विजैः सह
शर्करा च महीं प्राप्तास्ततो जीवाः क्षयं गताः 3.1.1.
शांतो भूत्वा पुनर्वायुर्जलं सर्वमशोषयत्