द्वादशाब्दवयः प्राप्तौ बभूव वरवर्णिनी
पितुराज्ञानुसारेण भूपानाहूय सत्वरम्
नानादेश्या ययुर्भूपा मुख्यशूरसमन्विताः
ययौ बिंदुगढं ग्रामं स्थितो यत्र महोत्सवः 3.3.25.
स्वसेनां स्थापयामास रक्षार्थे सर्वभूभुजाम्
सर्वभूपान्विलोक्याशु लक्षणांतमुपाययौ
चत्वारिंशत्तथा पंचाशन्मानाब्दवयोवृतम्
दृष्ट्वा तमात्मसदृशमाह्लादाद्यैश्च रक्षितम्
तदा स लक्षणो वीरो गृहीत्वा पाणिमुत्तमम्
पृध्वीराजस्तथा सर्वे भूमिपा बलसंयुताः
तालनः सिंहिनीसंस्थो गृहीत्वा परिघं मुदा
पंचशब्दगजारूढश्चाह्लादस्तोमरायुधः
कृष्णांशो बिन्दुलारूढो गृहीत्वा खड्गमुत्तमम्
देवो मनोरथारूढो भैरवं भल्लमादधौ 3.3.25.
लक्षणो धनुरादाय वैष्णवास्त्राणि वै पुनः
याममात्रमभूयुद्धं तेषां तैश्च समन्वितम्
ययौ स देहलीग्रामे शारदानंदनस्तदा ददौ कन्यां विधानेन धनधान्यादिसंवृताम्
एतस्मिन्नन्तरे प्राप्तो महीपतिरुवाच तम्
अहो मित्र महावीर कीदृशी ते मतिः स्थिता
लक्षणो धर्मरहितो वर्णसंकरसंयुतः तैर्युतश्च निवासो वै संत्याज्यो धर्मकोविदैः
इति पद्माकरः श्रुत्वा सर्वमायाविशारदः स्वगेहे स्थापयामास कारागारे शिलामये
देव्याश्च वरदानेन देवसिंहस्तदा निशि
इंदुलाग्रे च तत्सर्वे गदित्वा तेन संयुतः
पद्माकरस्तु तच्छुत्वा कृत्वा मायां च शाम्बरीम् 3.3.25.
इंदुलश्च तदा चापे संधाय शरमुत्तमम्
तदा ते बोधिताः सर्वे कामास्त्रेण महाबलाः
बहिर्भूता: समाजग्मुः शत्रुसैन्यान्यनाशयन्
शारदानंदनो भूपस्तत्रागत्य विनम्य तान्
नानाविधानि भोज्यानि प्रशस्याभरणानि च
कुमारिकां स्वकीयां च बहुरोदनतत्पराम् आगतो लक्षणो गेहं माघकृष्णाष्टमीदिने