उषित्वा त्रिदिनं मार्गे शिरीषाख्यमुपागतः
चामुंडागमनं श्रुत्वा बलखानिर्महाबलः लक्षसैन्येन सहितः प्रययौ नगराद्बहिः
तस्यानुजो महावीरस्सुखखानिर्बलैः सह
बलखानिः कपोतस्थो नाशयित्वा रिपोर्बलम्
तयोश्चासीन्महद्युद्धं स्वस्वसैन्यक्षयंकरम्
प्रातःकाले तु संप्राप्ते कृत्वा स्नानादिकाः क्रियाः
रथस्थो बलखानिश्च चामुण्डो गजपृष्ठगः
बाणैर्बाणांश्च संछिद्य देवीभक्तौ च तौ मुदा खड्गचर्मधरौ वीरौ युयुधाते परस्परम्
यावन्तो रक्तबीजांगात्संजाता रक्तबिंदवः 3.3.2४.
तैश्च वीरैर्मदोन्मत्तैर्बलखानिस्समंततः
एतस्मिन्नंतरे वीरः सुखखानिस्ततोऽनुजः
पुरा तु सुखखा निश्च हव्यैर्देवं च पावकम्
पावकीयं शरं रम्यं शत्रुसंहारकारकम्
बलखानिस्तु बलवान्दृष्ट्वा शत्रुविनाशनम्
कृत्वा नारीमयं वेषं स भीतो ब्रह्महत्यया
हतशेषं पंचलक्षं सैन्यं गत्वा च देहलीम्
नारीवेषं च चामुंडं स दृष्ट्वा पृथिवीपतिः
कथं जयो मे भविता सुखखानौ च जीविते
ब्राह्मी माता तयोर्ज्ञेया शुद्धा सैव पतिव्रता 3.3.2४.
ब्राह्मण्यस्तास्तदा भूत्वा बलखानिगृहं ययुः
तव पुत्रौ महावीरौ दिष्ट्या शत्रुक्षयंकरौ
तदा ब्राह्मी वचः प्राह पावकीयः शरः शुभः
इति ज्ञात्वा तु ता दूत्यः प्रययुर्देहलीं प्रति
महीराजस्तु तच्छ्रुत्वा महादेवमुमापतिम्
सूत उवाच मुने बिंदुसरो नाम दक्षिणस्यां दिशि स्थितम्
तस्य तीरेऽवसद्ग्रामो योजनायामसंयुतः
तस्मिन्ग्रामेऽवसद्भूपो विष्वक्सेनान्वयोद्भवः
ब्रह्मचर्यप्रभावेण तद्वीर्यं शिरसि स्थितम्
यज्ञैः संपूजयामास सुरज्येष्ठं प्रजापतिम्
दशमासान्तरे जाता कन्या सर्वगुणालया