वीरसिंहपुरं जग्मुस्ते वीरा मदवत्तराः पालितां गोरखाख्येन योगिना भक्तकार णात्
भूपानुजः प्रवीरश्च सैन्यायुतसमन्वितः
प्रत्यहं बलवाञ्छूरो हत्वा शूरसहस्र कम्
पूजनात्स प्रसन्नात्मा सैन्यमुज्जीव्य भूपतेः
सार्द्धमासो गतस्तत्र युद्ध्यतां बलशालिनाम्
विजयो नः कथं भूप ब्रूहि नस्तत्त्वमग्रतः
योगिनां गोरखं नाम पराजित्य स्वनृत्यतः
इत्युक्तास्ते हि कृष्णाद्याः कृत्वा योगमयं वपुः
प्रातः काले ययुस्ते वै मंदिरं तस्य योगिनः 3.3.2४.
देवसिंहो मृदंगाढ्यो वीणाधारी च तालनः
तदर्थं हृदये कृत्वा गोरखस्सर्वयोगवान्
नमस्यामो वयं तुभ्यं यदि देयो वरस्त्वया
इति श्रुत्वा हृदि ध्यात्वा तानुवाच प्रसन्नधीः तत्पश्चान्निष्कलीभूयागमिष्यति मदंतिकम्
अद्यप्रभृति भो वीर मया त्यक्तमिदं जगत्
इत्युक्त्वान्तर्हितो योगी जग्मुस्ते रणमूर्द्धनि
हत्वा तस्यायुतं सैन्यं लुण्ठयित्वा च तद्गृहम्
कोशलं देशमागत्य जित्वा तस्य महीपतिम्
षोडशाब्दकरं प्राप्य मुद्राकोट्ययुतं मुदा
होलिकाया दिने रम्ये लक्षणो बलवत्तरः 3.3.2४.
तदा वयं च मुनयः समाधिस्थाश्च भूपतिः
स्नात्वा सर्वाणि तीर्थानि संतर्प्य द्विजदेवताः
इति ते कथितं विप्र यथादिग्विजयोभवत्
मार्गकृष्णस्य सप्तम्यां भूमिराजो महाबलः
मया श्रुतस्ते तनयः शारदावरदर्पितः
इत्युक्तस्स तु सामन्तस्तेन राज्ञेव सत्कृतः । चामुंडं नाम तनयं समाहूयाब्रवीदिदम्
पुत्र त्वं नृपतेः कार्यं सदा कुरु रणप्रिय
देह्याज्ञां भूपते मह्यं शीघ्रं जयमवाप्स्यसि
मच्छिरीषवनं छित्वा गृहीत्त्वा राष्ट्रमुत्तमम्
यदि त्वं बलखानिं च जित्वा मे ह्यर्पयिष्यसि 3.3.2४.
इत्युक्त्वा रक्तबीजं तं समाहूय स्वकं बलम्