याममात्रेण तं जित्वा षोडशाब्दस्य वै करम् 3.3.2४.
मागधेशं पुनर्जित्वा नाम्ना विजयकारिणम्
पंचकोटीश्च वै मुद्रा राजतस्य पुनर्ययौ लक्षसैन्ययुतं भूपं कालीवर्माणमुत्तमम्
विंशत्यब्द करं प्राप्य कोटिं स्वर्णमयं तदा
उष्ट्रदेशं ययौ वीरः पालितं तैर्महाबलैः।। धोयीकविस्तत्रनृपो लक्षसैन्यसमन्वितः
जगन्नाथाज्ञया प्राप्तस्तैश्च सार्द्धं रणोन्मुखे अहोरात्रप्रमाणेन कृष्णांशेन जितो नृपः
विंशत्यब्दकरं सर्वं कोटिस्वर्णसमन्वितम्
पुंड्रदेशं ययौ वीरो लक्षणो बलवत्तरः दिनमात्रेण तं जित्वा कोटिमुद्रा गृहीतवान्
महेंद्रगिरिमागत्य नत्वा तं भार्गवं मुनिम् 3.3.2४.
योगसिंहस्तदागत्य कृष्णांशं प्रति भार्गव
वीरसिंहपुरं जग्मुस्ते वीरा मदवत्तराः पालितां गोरखाख्येन योगिना भक्तकार णात्
भूपानुजः प्रवीरश्च सैन्यायुतसमन्वितः
प्रत्यहं बलवाञ्छूरो हत्वा शूरसहस्र कम्
पूजनात्स प्रसन्नात्मा सैन्यमुज्जीव्य भूपतेः
सार्द्धमासो गतस्तत्र युद्ध्यतां बलशालिनाम्
विजयो नः कथं भूप ब्रूहि नस्तत्त्वमग्रतः
योगिनां गोरखं नाम पराजित्य स्वनृत्यतः
इत्युक्तास्ते हि कृष्णाद्याः कृत्वा योगमयं वपुः
प्रातः काले ययुस्ते वै मंदिरं तस्य योगिनः 3.3.2४.
देवसिंहो मृदंगाढ्यो वीणाधारी च तालनः
तदर्थं हृदये कृत्वा गोरखस्सर्वयोगवान्
नमस्यामो वयं तुभ्यं यदि देयो वरस्त्वया
इति श्रुत्वा हृदि ध्यात्वा तानुवाच प्रसन्नधीः तत्पश्चान्निष्कलीभूयागमिष्यति मदंतिकम्
अद्यप्रभृति भो वीर मया त्यक्तमिदं जगत्
इत्युक्त्वान्तर्हितो योगी जग्मुस्ते रणमूर्द्धनि
हत्वा तस्यायुतं सैन्यं लुण्ठयित्वा च तद्गृहम्
कोशलं देशमागत्य जित्वा तस्य महीपतिम्
षोडशाब्दकरं प्राप्य मुद्राकोट्ययुतं मुदा
होलिकाया दिने रम्ये लक्षणो बलवत्तरः 3.3.2४.
तदा वयं च मुनयः समाधिस्थाश्च भूपतिः