न्यूहाय दत्तवान्देवो बुद्धीशो बुद्धिगः स्वयम्
सिमश्च हामश्च तथा याकूतो नाम विश्रुतः
मादी तथा च यूनानस्तूवलोमसकस्तथा
जुम्रा दश कनाब्जश्च रिफतश्च तजर्रुमः
इलीशस्तरलीशश्च कित्तीहूदानिरुच्यते
द्वितीयतनयाद्धामात्सुताश्चत्वार एव ते
देशाः प्रसिद्धा म्लेच्छानां कुशात्षट्तनयाः स्मृताः 3.1.5.
तथा सवतिका नाम निमरूहो महाबलः
अक्कदो वावुनश्चैव रसनादेशकाश्च ते
द्विसहस्रे शताब्दान्ते बुद्ध्वा पुनरथाब्रवीत
राज्यं पंचशतं वर्षं तेन म्लेच्छेन सत्कृतम्
चतुश्शतं पुनर्ज्ञेयं सिंहस्तत्तनयोऽभवत्
इव्रतस्य सुतो ज्ञेयः पितुस्तुल्यं कृतं पदम्
राज्यं कृतं तु तस्माच्च रऊ नाम सुतः स्मृतः
तस्माच्च जूज उत्पन्नः पितुस्तुल्यं कृतं पदम् राज्यं चकार नृपतिर्बहुशत्रून्विहिंसयन्
ताहरस्तस्य तनयः पितुस्तुल्यं कृतं पदम्
एवं तेषां स्मृता वंशा नाममात्रेण कीर्तिताः 3.1.5.
तेषां वृद्धिः कलौ चासीत्संक्षेपेण प्रकीर्तिता
अन्यखंडे गता सैव म्लेच्छा ह्यानंदिनोऽभवन्
व्यास उवाच तच्छ्रुत्वा मुनयस्सर्वे विशालायां निवासिनः
ध्यानं चक्रुर्मुदा युक्ता द्विशतं परिवत्सरान्
संध्यातर्पणदेवार्चाः कृत्वा ध्यात्वा जनार्द्दनम्
व्यासशिष्य महाभाग चिरं जीव महामते
आवन्ते शंखनामाऽसौ सांप्रतं वर्तते नृपः
म्लेच्छदेशे शकपतिरथ राज्यं करोति वै
द्विसहस्रे कलौ प्राप्ते म्लेच्छवंशविवर्द्धिता
ब्रह्मावर्तमृते तत्र सरस्वत्यास्तटं शुभम् 3.1.5.
देवार्चनं वेदभाषा नष्टा प्राप्ते कलौ युगे
व्रजभाषा महाराष्ट्री यावनी च गुरुंडिका
पानीयं च स्मृतं पानी बुभुक्षा भूख उच्यते