महावतीं समागत्य स दूतो भूपतिं प्रति 3.3.2४.
वाजिनस्ते हि चत्वारो दिव्यरूपाः शुभ प्रभाः
तयाहूतान्हयान्भूप देहि मे विस्मयं त्यज
इति श्रुत्वा वचो घोरं स भूपो भयकातरः हयान्स्वान्स्वान्मुदा देहि मदीयं वचनं कुरु
इति श्रुत्वा स आह्लादो ध्यात्वा सर्वमयीं शिवाम्
यत्र नः संस्थिताः प्राणास्तत्र ते वा जिनः स्थिताः
इति श्रुत्वा वचस्तस्य राजा परिमलो बली
शपथं कृतवान्घोरं शृण्वतां बलशालिनाम्
शय्या स्वमातृसदृशी ब्रह्महत्योपमा सभा
इति श्रुत्वा तु शपथं देवकी शोकतत्परा
पंचविंशाब्दके प्राप्ते कृष्णांशे योगतत्परे 3.3.2४.
निर्ययुः कान्यकुब्जं ते जयचंद्रेण पालितम्
इन्दुलः प्रययौ शीघ्रमयुताश्वबलैस्सह कृष्णांशो बिंदुलारूढो देवकीमनुसंययौ
त्यक्त्वा ते भूपतेर्ग्रामं सर्वसंपत्समन्वितम्
नत्वा तं भूपतिं प्रेम्णा गदित्वा सर्वकारणम्
जयचंद्रस्तु भूपालो देवसिंहेन वर्णितः
कुंठितो देवसिंहस्तु गत्वा कृष्णांशमुत्तमम्
त्वरितं बिंदुलारूढो हयपंचशतावृतः
दृष्ट्वा तं लक्षणो वीरो हस्तिनः पृष्ठमास्थितः
निष्फलत्वं गतो बाणो विष्णुमंत्रेण प्रेरितः
नत्वा तच्चरणौ दिव्यौ कुलिशादिभिरन्वितौ 3.3.2४.
जानेऽहं त्वां महाबाहो कृष्णशक्त्यवतारकम्
त्वदृते को हि मे बाणं निष्फलं कुरुते भुवि
इत्युक्त्वा तेन सहितो जयचन्द्रं महीपतिम्
नृपस्तयोः परीक्षार्थं यौ तु छायाविमोहितौ
तदाह्लादोदयौ वीरौ गृहीत्वा तौ स्वलीलया
मृतौ कुवलयापीडौ दृष्ट्वा राजा भयातुरः
इषशुद्धे तु संप्राप्ते लक्षणो नाम वै बली
सप्तलक्षबलैस्सार्द्धं तालनाद्यैश्च संयुतः
रुद्रवर्मा च भूपालो गौडवंशयशस्करः