स्वंस्वं गेहं ययुस्सर्वे भूपाश्चाह्लादमानिताः शृण्वतां सर्वपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.23.
महीपतिस्सदा दुःखी देहलीं प्रति चागमत्
वृत्तांतं च नृपस्याग्रे कथयित्वा स तारकः
एतस्मिन्नंतरे मंत्री चंद्रभट्ट उदारधीः
मया चाराधिता देवी वैष्णवी विश्वकारिणी
तया दत्तं शुभं ज्ञानं कुमतिध्वंसकारकम् चरित्रं वर्णयामास तस्य कल्मषनाशनम्
इत्युक्त्वा स च शुद्धात्मा ग्रंथं भाषामयं शुभम्
तच्छ्रुत्वा भूमिराजस्तु विस्मितश्चाभवत्क्ष णात् ।। महीपतिस्तदा प्राह दिव्याश्वबलदर्पितः
चत्वारो वाजिनो दिव्या जलस्थलखगाश्च ते
इति श्रुत्वा स नृपतिः श्रुतवाक्यविशारदम्
महावतीं समागत्य स दूतो भूपतिं प्रति 3.3.2४.
वाजिनस्ते हि चत्वारो दिव्यरूपाः शुभ प्रभाः
तयाहूतान्हयान्भूप देहि मे विस्मयं त्यज
इति श्रुत्वा वचो घोरं स भूपो भयकातरः हयान्स्वान्स्वान्मुदा देहि मदीयं वचनं कुरु
इति श्रुत्वा स आह्लादो ध्यात्वा सर्वमयीं शिवाम्
यत्र नः संस्थिताः प्राणास्तत्र ते वा जिनः स्थिताः
इति श्रुत्वा वचस्तस्य राजा परिमलो बली
शपथं कृतवान्घोरं शृण्वतां बलशालिनाम्
शय्या स्वमातृसदृशी ब्रह्महत्योपमा सभा
इति श्रुत्वा तु शपथं देवकी शोकतत्परा
पंचविंशाब्दके प्राप्ते कृष्णांशे योगतत्परे 3.3.2४.
निर्ययुः कान्यकुब्जं ते जयचंद्रेण पालितम्
इन्दुलः प्रययौ शीघ्रमयुताश्वबलैस्सह कृष्णांशो बिंदुलारूढो देवकीमनुसंययौ
त्यक्त्वा ते भूपतेर्ग्रामं सर्वसंपत्समन्वितम्
नत्वा तं भूपतिं प्रेम्णा गदित्वा सर्वकारणम्
जयचंद्रस्तु भूपालो देवसिंहेन वर्णितः
कुंठितो देवसिंहस्तु गत्वा कृष्णांशमुत्तमम्
त्वरितं बिंदुलारूढो हयपंचशतावृतः
दृष्ट्वा तं लक्षणो वीरो हस्तिनः पृष्ठमास्थितः
निष्फलत्वं गतो बाणो विष्णुमंत्रेण प्रेरितः