परानंदस्तथा देवं तारकं चोपनंदनः 3.3.23.
प्रनन्दो वीरसेनं च ब्रह्मानन्दं स भूपतिः अहोरात्रमभूद्युद्धं तेषां च तुमुलं क्रमात्
एतस्मिन्नन्तरे रात्रौ चित्ररेखा समागता
चित्रगुप्तं तदा ध्यात्वा चित्रमायामचीकरत्
तान् दृष्ट्वा विस्मिताः सर्वे भयभीताश्च दुद्रुवुः
पंचयोजनमागत्य ततो वासमकारयन्
हा कृष्णांश महाबाहो शरणागतवत्सल
तया विमोहिता वीरा वयं ते शरणं गताः
तदा कोलाहलश्चासीद्रुदतां बलशालिनाम्
आह्लादस्तुऽतथा श्रुत्वा वज्रपाताहतः स्वयम्
एतस्मिन्नंतरे योगी कृष्णांशो भगवत्कला 3.3.23.
शूरश्च दशसाहस्रैर्मकरंदेन संयुतः
जित्वा तान्सर्वभूपालान्गृहीत्वा विपुलं धनम्
तस्य शब्देन शेषांशो बोधितो बलशालिना स्वांके निवेशयामास कृष्णांशं योगिरूपिणम्
स्नापयित्वा श्रुधाराभिः कृष्णांशं प्रेमविह्वलः
कृष्णांशोऽपि प्रसन्नात्मा स्वकीयां सकलां कथाम्
चित्रविद्यां स्वयं कृत्वा पाठितां चित्ररेखया विवाहं कारयामास जयंतस्य तया सह
बाह्लीकस्तु प्रसन्नात्मा दत्त्वा च विपुलं धनम्
शतं गजान्हयांस्तत्र सहस्राणि धनैर्युतान्
प्रस्थानं कारयामास बलखानेर्महात्मनः
स्वंस्वं गेहं ययुस्सर्वे भूपाश्चाह्लादमानिताः शृण्वतां सर्वपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.23.
महीपतिस्सदा दुःखी देहलीं प्रति चागमत्
वृत्तांतं च नृपस्याग्रे कथयित्वा स तारकः
एतस्मिन्नंतरे मंत्री चंद्रभट्ट उदारधीः
मया चाराधिता देवी वैष्णवी विश्वकारिणी
तया दत्तं शुभं ज्ञानं कुमतिध्वंसकारकम् चरित्रं वर्णयामास तस्य कल्मषनाशनम्
इत्युक्त्वा स च शुद्धात्मा ग्रंथं भाषामयं शुभम्
तच्छ्रुत्वा भूमिराजस्तु विस्मितश्चाभवत्क्ष णात् ।। महीपतिस्तदा प्राह दिव्याश्वबलदर्पितः
चत्वारो वाजिनो दिव्या जलस्थलखगाश्च ते
इति श्रुत्वा स नृपतिः श्रुतवाक्यविशारदम्