तदा स्वर्णवती देवी पुष्पवत्या समन्विता 3.3.23.
स छित्त्वा शांबरीं मायां बोधयित्वा स्वसैनिकान्
दृष्ट्वा ताञ्छत्रुसंयुक्तान्कुतुकस्तु तया सह
छित्त्वा सा सकलां मायां बद्ध्वा तौ दैत्यसन्निभौ
न दाहो दाहमापन्नो न भस्मी भस्मवान्खलु
तदा पुष्पवती देवी हत्वा केसरिणी रुषा
कुतुकं च तथाभूतं हत्वा स्वर्णवती स्वयम्
पुनरागम्य सा देवी तया सार्द्धं शुभानना
ते सर्वे विस्मिताश्चासञ्ज्ञात्वा देव्या विमोहिताः
पुनश्चासीत्तयोर्युद्धं सेनयोरुभयोर्मृधे
परानंदस्तथा देवं तारकं चोपनंदनः 3.3.23.
प्रनन्दो वीरसेनं च ब्रह्मानन्दं स भूपतिः अहोरात्रमभूद्युद्धं तेषां च तुमुलं क्रमात्
एतस्मिन्नन्तरे रात्रौ चित्ररेखा समागता
चित्रगुप्तं तदा ध्यात्वा चित्रमायामचीकरत्
तान् दृष्ट्वा विस्मिताः सर्वे भयभीताश्च दुद्रुवुः
पंचयोजनमागत्य ततो वासमकारयन्
हा कृष्णांश महाबाहो शरणागतवत्सल
तया विमोहिता वीरा वयं ते शरणं गताः
तदा कोलाहलश्चासीद्रुदतां बलशालिनाम्
आह्लादस्तुऽतथा श्रुत्वा वज्रपाताहतः स्वयम्
एतस्मिन्नंतरे योगी कृष्णांशो भगवत्कला 3.3.23.
शूरश्च दशसाहस्रैर्मकरंदेन संयुतः
जित्वा तान्सर्वभूपालान्गृहीत्वा विपुलं धनम्
तस्य शब्देन शेषांशो बोधितो बलशालिना स्वांके निवेशयामास कृष्णांशं योगिरूपिणम्
स्नापयित्वा श्रुधाराभिः कृष्णांशं प्रेमविह्वलः
कृष्णांशोऽपि प्रसन्नात्मा स्वकीयां सकलां कथाम्
चित्रविद्यां स्वयं कृत्वा पाठितां चित्ररेखया विवाहं कारयामास जयंतस्य तया सह
बाह्लीकस्तु प्रसन्नात्मा दत्त्वा च विपुलं धनम्
शतं गजान्हयांस्तत्र सहस्राणि धनैर्युतान्
प्रस्थानं कारयामास बलखानेर्महात्मनः